अक्षर आकार:

आत्मविद्याविलासः

Atma-Vidya-Vilasa

आत्मविद्याविलासः

श्रीसदाशिवेन्द्रसरस्वतीविरचितः अथ आत्मविद्याविलासः । चिन्मुद्रितकरकमलं चिन्तितभक्तेष्टदं विमलम् । गुरुवरमाद्यं कञ्चन निरवधिकानन्दनिर्भरं वन्दे ॥ वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम् । कञ्चन देशिकमाद्यं कैवल्यानन्दकन्दलं वन्दे ॥ १॥ निरवधिसंसृतिनीरधिनिपतितजनतारणस्फुरन्नौकाम् । परमतभेदनघुटिकां परमशिवेन्द्रार्यपादुकां नौमि ॥ २॥ देशिकपरमशिवेन्द्रादेशवशोद्बुद्धदिव्यमहिमाऽहम् । स्वात्मनि विश्रान्तिकृते सरसं प्रस्तौमि किञ्चिदिदम् ॥ ३॥ निरुपमनित्यनिरीहो निष्कलनिर्मायनिर्गुणाकारः । विगलितसर्वविकल्पः शुद्धो बुद्धश्चकास्ति परमात्मा ॥ ४॥ स्वाविद्यैकनिबद्धः कुर्वन्कर्माणि मुह्यमानः सन् । दैवाद्विधूतबन्धः स्वात्मज्ञानान्मुनिर्जयति ॥ ५॥ मायावशेन सुप्तो मध्ये पश्यन्सहस्रशः स्वप्नान् । देशिकवचःप्रबुद्धो दीव्यत्यानन्दवारिधौ कोऽपि ॥ ६॥ प्राकृतभावमपास्य स्वीकृतनिजरूपसच्चिदानन्दः । गुरुवरकरुणापाङ्गाद्गौरवमासाद्य माद्यति प्राज्ञः ॥ ७॥ श्रीगुरुकृपया सच्चित्सुखनिजरूपे निमग्नधीर्मौनी । विहरति कश्चन विबुधः शान्ताहन्तो नितान्तमुदितान्तः ॥ ८॥ गुरुवरकरुणालहरीव्यतिकरभरशीतलस्वान्तः । रमते यतिवर एको निरुपमसुखसीमनि स्वैरम् ॥ ९॥ श्रीदेशिकवरकरुणारविकरसमपोहितान्तरध्वान्तः । विहरन्मस्करिवर्यो निरवधिकानन्दनीरधावास्ते ॥ १०॥ जनिविपरीतक्रमतो बुद्ध्या प्रविलाप्य पञ्चभूतानि । परिशिष्टमात्मतत्त्वं पश्यन्नास्ते मुनिः शान्तः ॥ ११॥ जगदखिलमिदमसारं मायिकमेवेति मनसि मन्वानः । पर्यटति पाटिताशः प्रगलितमदमानमत्सरः कोऽपि ॥ १२॥ नात्मनि किञ्चिन्माया तत्कार्यं वाऽस्ति वस्तुतो विमले । इति निश्चयवानन्तः हृष्यत्यानन्दनिर्भरो योगी ॥ १३॥ त्वमहमभिमानहीनो मोदितनानाजनाचारः । विहरति बालवदेको विमलसुखाम्भोनिधौ मग्नः ॥ १४॥ अवधूतकर्मजालो जडबधिरान्धोपमः कोऽपि । आत्मारामो यतिराडटवीकोणेष्वटन्नास्ते ॥ १५॥ शान्त्या दृढोपगूढः शान्तसमस्तान्यवेदनोदारः । रमते रसज्ञ एको रम्ये स्वानन्दपर्यङ्के ॥ १६॥ उन्मूलितविषयारिः स्वीकृतवैराग्यसर्वस्वः । स्वात्मानन्दमहिम्नि स्वाराज्येऽस्मिन् विराजते यतिराट् ॥ १७॥ सवितर्यपि शीतरुचौ चन्द्रे तीक्ष्णेऽप्यधो वहत्यग्नौ । मायिकमिदमिति जानन्जीवन्मुक्तो न विस्मयी भवति ॥ १८॥ अज्ञानवैरिविजयी प्रज्ञामातङ्गमस्तकारूढः । विहरति संयमिराजः समरससुखधाम्नि सर्वतो रम्ये ॥ १९॥ शान्ताहंकृतिदोषः सुसमाहितमानसः कोऽपि । पूर्णेन्दुशिशिरभावो राजत्यानन्दसत्यचिद्रसिकः ॥ २०॥ तिष्ठन्परत्र धाम्नि स्वीयसुखास्वादपरवशः कश्चित् । क्वापि ध्यायति कुहचिद्गायति कुत्रापि नृत्यति स्वैरम् ॥ २१॥ अगृहीताघकलङ्कः प्रशमितसङ्कल्पविभ्रमः प्राज्ञः । न्यक्कृतकार्यकलापस्तिष्ठत्यापूर्णसीमनि क्वापि ॥ २२॥ चपलं मनकुरङ्गं चारु गृहीत्वा विमर्शवागुरया । निगमारण्यविहारश्रान्तः शेते स्वधाम्नि कोऽप्येकः ॥ २३॥ दारुणचित्तव्याघ्रं धीरमनःखड्गधारया हत्वा । अभयारण्ये कोऽपि स्वैरविहारी जयत्येकः ॥ २४॥ सज्जनहृदयसरोजोन्मीलनकरधीकरप्रसरः । एको यतिवरपूषा निर्दोषश्चरति चिद्गगने ॥ २५॥ कुवलयविकासकारणमज्ञानध्वान्तकौमुदीप्रज्ञः । शुद्धो मुनीन्द्रचन्द्रः सुरसेव्ये लसति विष्णुपदे ॥ २६॥ स्वानन्दामृतसेकैरान्तरसंतापसंततिं शमयन् । चित्रमचञ्चलवृत्तिश्चिद्व्योमनि भाति योगिवर्यघनः ॥ २७॥ सुमनःसौरभमञ्जुलसञ्चारनिवारिताखिलश्रान्तिः । संयमिचारुसमीरो विहरत्यानन्दसंविदारामे ॥ २८॥ निःश्रेयससरसफले निर्मलविज्ञानपल्लवमनोज्ञे । वीतभये विपिनतले यतिशितिकण्ठो विभाति कोऽप्येकः ॥ २९॥ निःसारभुवनमरुतलमुत्सार्यानन्दसाररसपूर्णे । वरसरसि चिन्मयेऽस्मिन्परहंसः कोऽपि दीव्यति स्वैरम् ॥ ३० । निखिलागमपल्लविते निगमशिरस्तन्त्रशीतलोद्याने । मधुरतरमञ्जुवाचः कूजन्नास्ते यतीद्रकलकण्ठः ॥ ३१॥ दारितमोहमदेभो दूरीकृतसकलदुरितशार्दूलः । विबुधोत्तमसिंहवरो विहरत्यानन्दविततकान्तारे ॥ ३२॥ अज्ञानमृगवरोज्झितविज्ञानोत्तुङ्गश‍ृङ्गशिखरितले । मतिसलिलशीतलाङ्गो यतिमदकलभो विराजते विहरन् ॥ ३३॥ नासाञ्चलनिहिताक्षो नामादिभ्यो निवर्तितस्वान्तः । तटिनीतटेषु तत्त्वं ध्यायन्नास्ते यतिः कोऽपि ॥ ३४॥ आशावसनो मौनी नैराश्यालङ्कृतः शान्तः । करतलभिक्षापात्रस्तरुतलनिलयो मुनिर्जयति ॥ ३५॥ विजननदीकुञ्जगृहे मञ्जुलपुलिनैकमञ्जुतरतल्पे । शेते कोऽपि यतीन्द्रः समरससुखबोधवस्तुनिस्तन्द्रः ॥ ३६॥ भूतलमृदुतरशय्यः शीतलवातैकचामरः शान्तः । राकाहिमकरदीपो राजति यतिराजशेखरः कोऽपि ॥ ३७॥ विपुलशिलातलफलके विमलसरिद्वारिपरिवृतोदारे । मन्दं मलयजपवने वाति प्रस्वपिति कोऽपि यतिराजः ॥ ३८॥ आन्तरमेकं किञ्चित्सन्ततमनुसन्दधन्महामौनी । करपुटभिक्षामश्नन्नटति हि वीथ्यां जडाकृतिः कोऽपि ॥ ३९॥ प्रविलाप्य जगदशेषं परिशिष्टाखण्डवस्तुपरतन्त्रः । प्राश्नाति कवलमास्ये प्राप्तं प्रारब्धकर्मणा कोऽपि ॥ ४०॥ निन्दति किमपि न योगी नन्दति नैवापरं किमप्यन्तः । चन्दनशीतलहृदयः कन्दलितानन्दमन्थरः स्वास्ते ॥ ४१॥ सन्त्यज्य शास्त्रजालं संव्यवहारं च सर्वतस्त्यक्त्वा । आश्रित्य पूर्णपदवीमास्ते निष्कम्पदीपवद्योगी ॥ ४२॥ तृणपङ्कचर्चिताङ्गस्तृणमिव विश्वं विलोकयन्योगी । विहरति रहसि वनान्ते विजरामरभूम्नि विश्रान्तः ॥ ४३॥ पश्यति किमपि न रूपं न वदति न श‍ृणोति किञ्चिदपि वचनम् । तिष्ठति निरुपमभूमनि निष्ठामवलम्ब्य काष्ठवद्योगी ॥ ४४॥ जात्यभिमानविहीनो जन्तुषु सर्वत्र पूर्णतां पश्यन् । गूढं चरति यतीन्द्रो मूढवदखिलागमार्थतत्त्वज्ञः ॥ ४५॥ उपधाय बाहुमूलं परिधायाकाशमवनिमास्तीर्य । प्रस्वपिति विरतिवनितां परिरभ्यानन्दपरवशः कोऽपि ॥ ४६॥ गतभेदवासनाभिः स्वप्रज्ञोदारवारनारीभिः । रमते सह यतिराजस्त्रय्यन्तान्तःपुरे कोऽपि ॥ ४७॥ वैराग्यविपुलमार्गं विज्ञानोद्दामदीपिकोद्दीप्तम् । आरुह्य तत्त्वहर्म्यं मुक्त्या सह मोदते यतिराट् ॥ ४८॥ विजनतलोत्पलमालां वनितावैतृष्ण्यकल्पवल्लीं च । अपमानामृतगुटिकामात्मज्ञः कोऽपि गृह्णाति ॥ ४९॥ न निषेधति दोषधिया गुणबुद्ध्या वा न किञ्चिदादत्ते । आविद्यकमखिलमिति ज्ञात्वोदास्ते मुनिः कोऽपि ॥ ५०॥ भूतं किमपि न मनुते भावि च किञ्चिन्न चिन्तयत्यन्तः । पश्यति न पुरोवर्त्यपि वस्तु समस्तार्थसमरसः कोऽपि ॥ ५१॥ निगृहीताखिलकरणो निर्मृष्टाशेषविषयेहः । तृप्तिमनुत्तमसीमां प्राप्तः पर्यटति कोऽपि यतिवर्यः ॥ ५२॥ सन्त्यजति नोपपन्नं नासम्पन्नं च वाञ्छति क्वापि । स्वस्थः शेते यतिराडान्तरमानन्दमनुभवन्नेकः ॥ ५३॥ कामपि विमलां पदवीमासाद्यानन्दसंविदुन्निद्राम् । आस्ते भिक्षुक एको विहरन्निर्मुक्तबन्धनः स्वैरम् ॥ ५४॥ वस्तुन्यस्तमिताखिलविश्वविहारे विलीनमनाः । राजति परानपेक्षो राजाऽखिलवीतरागाणाम् ॥ ५५॥ आचार्यापाङ्गदृशा समवाप्तापारसंविदाकारः । प्रशमितसकलविभेदः परहंसः कश्चिदाभाति ॥ ५६॥ वर्णाश्रमव्यवस्थामुत्तीर्य विधूय विद्यादीन् । परिशिष्यते यतीन्द्रः परिपूर्णानन्दबोधमात्रेण ॥ ५७॥ क्षयमुपनीय समस्तं कर्म प्रारब्धमुपभुज्य । प्रविगलितदेहबन्धः प्राज्ञो ब्रह्मैव केवलं भवति ॥ ५८॥ स्तिमितमनन्तमनाद्यं सन्ततमानन्दबोधघनम् । अविकल्पमाद्यमेकं सन्मात्रं विद्यते किमपि ॥ ५९॥ अक्षरमजरमजातं सूक्ष्मतरापूर्वशुद्धविज्ञानम् । प्रगलितसर्वक्लेशं परतत्त्वं वर्तते किमपि ॥ ६०॥ सुखतरममरमदूरं सारं संसारवारिधेस्तीरम् । समरसमभयमपारं तत्किञ्चन विद्यते तत्त्वम् ॥ ६१॥ अरसमगन्धमरूपं विरजस्कमसत्त्वमतमस्कम् । निरुपमनिर्भयतत्त्वं तत्किमपि द्योतते नित्यम् ॥ ६२॥ इति गुरुकरुणापाङ्गादार्याभिर्द्व्यधिकषष्टिसङ्ख्याभिः । निरवद्याभिरवोचं निगमशिरस्तन्त्रसारभूतार्थम् ॥ ६३॥ गदितमिममात्मविद्याविलासमनुवासरं स्मरन्विबुधः । परिणतपरात्मविद्यः प्रपद्यते सपदि परमार्थम् ॥ ६४॥ परमशिवेन्द्रश्रीगुरुशिष्येणेत्थं सदाशिवेन्द्रेण । रचितेयमात्मविद्याविलासनाम्नी कृतिः पूर्णा ॥ ६५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य- श्रीपरमशिवेन्द्रसरस्वतीपादाब्जसेवापरायण- श्रीसदाशिवेन्द्रसरस्वत्या विरचितः आत्मविद्याविलासः समाप्तः ॥