अक्षर आकार:

आत्मानुसन्धानम्

AtmAnusandhAnam

आत्मानुसन्धानम्

त्रय्यन्तततिसंसिद्धशुद्धविद्यैकगोचरः । अनाद्यन्तः परात्मासौ जयत्यानन्दसुन्दरः ॥ १॥ श्रीमत्परशिवेन्द्रश्रीदेशिकानां वयं मुदा । अद्वैतानन्दमाध्वीकमङ्घ्रिपद्ममुपास्महे ॥ २॥ श्रीदेशिकोक्तवेदान्तनामसाहस्रमध्यगान् । कांश्चिन्नाममणीन्पद्यदामभिर्ग्रथयाम्यहम् ॥ ३॥ अच्युतोऽहमनन्तोऽहमतर्क्योऽहमजोऽस्म्यहम् । अव्रणोऽहमकामोऽहमसङ्गोऽस्म्यभयोऽस्म्यहम् ॥ ४॥ अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमव्ययः । अरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् ॥ ५॥ अक्षरोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् । अप्राणोऽहममूर्तोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् ॥ ६॥ अन्तर्याम्यहमग्राह्योऽनिर्देश्योऽहमलक्षणः । अगोत्रोऽहममात्रोऽहमचक्षुष्कोऽस्म्यवागहम् ॥ ७॥ अदृश्योऽहमवर्णोऽहमखण्डोऽस्म्यहमद्भुतः । अश्रुतोऽहमदृष्टोऽहमन्वेष्टव्योऽमरोऽस्म्यहम् ॥ ८॥ अवायुरस्म्यनाकाशोऽतेजस्कोऽव्यभिचार्यहम् । अमतोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यहम् ॥ ९॥ अरजस्कोऽतमस्कोऽहमसत्त्वोऽस्म्यगुणोऽस्म्यहम् । अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् ॥ १०॥ अद्वैतोऽहमपूर्वोऽहमबाह्योऽहमनन्तरः । अश्रोत्रोऽहमदीर्घोऽहमव्यक्तोऽहमनामयः ॥ ११॥ अद्वयानन्दविज्ञानघनोऽस्म्यहमविक्रियः । अनिच्छोऽहमलेपोऽहमकर्तास्म्यहमक्षयः ॥ १२॥ अविद्याकार्यहीनोऽहमवाङ्मनसगोचरः । अनल्पोऽहमशोकोऽहमविकल्पोऽस्म्यतिज्वलन् ॥ १३॥ आदिमध्यान्तहीनोऽहमाधारोऽस्म्यहमाततः । आत्मचैतन्यरूपोऽहमहमानन्दचिद्घनः ॥ १४॥ आनन्दामृतरूपोऽहमात्मसंस्थोऽहमान्तरः । आप्तकामोऽहमाकाशात्पर आत्मेश्वरोऽस्म्यहम् ॥ १५॥ ईशानोऽस्म्यहमीड्योऽहमहमुत्तमपूरुषः । उत्कृष्टोऽहमुपद्रष्टाहमुत्तरतरोऽस्म्यहम् ॥ १६॥ केवलोऽहं कविः कर्माध्यक्षोऽहं करणाधिपः । गुहाशयोऽहं गुप्तोऽहं चक्षुषश्चक्षुरस्म्यहम् ॥ १७॥ चिदानन्दोऽस्म्यहं चेता चिद्घनश्चिन्मयोऽस्म्यहम् । ज्योतिर्भयोऽस्म्यहं ज्यायाञ्ज्योतिषां ज्योतिरस्म्यहम् ॥ १८॥ तमसः साक्ष्यहं तुर्यात्तुर्योऽहं तमसः परः । दिव्यो देवोऽस्मि दुर्दर्शो द्रष्टा ध्येयो ध्रुवोऽस्म्यहम् ॥ १९॥ नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः । निर्मलो निर्विकल्पोऽहं निराख्यातोऽस्मि निश्चलः ॥ २०॥ निर्विकारो नित्यपूतो निर्गुणो निःस्पृहोऽस्म्यहम् । निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः ॥ २१॥ पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् । परावरोऽस्म्यहं प्रज्ञाप्रपञ्चोपशमोऽस्म्यहम् ॥ २२॥ परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः । पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् ॥ २३॥ प्रज्ञात्माहं प्रशान्तोऽहं प्रकाशः परमेश्वरः । बहुधा चिन्त्यमानोऽहमहं ब्रह्मादिवन्दितः ॥ २४॥ बुद्धोऽहं भूतपालोऽहं भारूपो भगवानहम् । महादेवो महानस्मि महाज्ञेयो महेश्वरः ॥ २५॥ विमुक्तोऽहं विभुरहं वरेण्यो व्यापकोऽस्म्यहम् । वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् ॥ २६॥ विश्वाधिकोऽहं विशदो विष्णुर्विश्वकृदस्म्यहम् । शुद्धोऽस्मि शुक्रः शान्तोऽहं शाश्वतोऽस्मि शिवोऽस्म्यहम् ॥ २७॥ सर्वभूतान्तरात्माहमहमस्मि सनातनः । सर्वेश्वरोऽहं सर्वज्ञः सूक्ष्मः सर्वगतोऽस्म्यहम् ॥ २८॥ अहं सकृद्विभातोऽहं स्वे महिम्नि प्रतिष्ठितः । सर्वान्तरः स्वयञ्ज्योतिः सर्वाधिपतिरस्म्यहम् ॥ २९॥ सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहम् । समस्तसाक्षी सर्वात्मा सर्वभूतगुहाशयः ॥ ३०॥ सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः । स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहम् ॥ ३१॥ सच्चिदानन्दपूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम् । सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि सद्घनः ॥ ३२॥ सत्यस्वरूपः सन्मात्रः सिद्धः सर्वात्मकोऽस्म्यहम् । सर्वाधिष्ठानसन्मात्रस्वात्मा बन्धहरोऽस्म्यहम् ॥ ३३॥ सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् । स्वतन्त्रोऽस्मि सुविस्पष्टः सुविभातोऽस्म्यहं हरिः ॥ अहं हरो हृधिस्थोऽहं हेतुदृष्टान्तवर्जितः । क्षेत्रज्ञः परमात्माहं श्रीमद्देशिकसूक्तितः ॥ ३५॥ इत्थमात्मानुसन्धानपरो यः पुरुषो भवेत् । सोऽविद्याक्लेशनिर्मुक्तो ब्रह्मैव भवति स्वयम् ॥ ३६॥ इत्यात्मानुसन्धानं समाप्तम् ॥ इति श्रीसदाशिवेन्द्रसरस्वत्या विरचितं आत्मानुसन्धानं सम्पूर्णम् ।