अक्षर आकार:

आनन्दमन्दाकिनी

Ananda Mandakini

आनन्दमन्दाकिनी

श्रीमधुसूदनसरस्वतीविरचिता आनन्दमन्दाकिनी । वाग्देवीचतुरास्यपञ्चवदना नित्यं सहस्राननो- ऽप्युच्चैर्यत्र जडात्मतामुपगताः केऽन्ये वराकाः सुराः । मर्त्याः स्वल्पधियः कथं नु कुशलास्तत्राप्यहं प्रज्ञया हीनः किं करवाणि तां व्रजकुलोत्तंस प्रशंसां तव ॥ १॥ नित्यं ब्रह्मसुरेन्द्रशङ्करमुखैर्दत्तोपहाराय ते विस्वादांस्तुषमिश्रतण्डुलकणान्विप्रः सुदामा ददौ । तद्वद्देव निरर्थकैः कतिपयै रूक्षाक्षरैर्निर्मितां वागीशप्रमुखस्तुतस्य भवतः कुर्यां स्तुतिं निस्त्रपः ॥ २॥ शश्वद्ब्रह्मशिवेन्द्रदेवगुरुवाग्देवीफणीन्द्रादिभिः स्तुत्यस्यापि हरे ममास्तु रचिता वाणी विनोदाय ते । चित्रालङ्कृतिशालिभिः सुललितैर्नित्यं कवीनां स्तवैः सम्राजः समुपासितस्य शुकगीर्धत्ते प्रमोदं यथा ॥ ३॥ चित्राकारकिरीटकोटिविलसद्रत्नौघकान्तिच्छटा- सङ्घट्टेन विचित्रमम्बरतलं कुर्वत्स्थितं मूर्धनि । जीयात्केकिशिखण्डमण्डनमिदं नीलाचलस्थायिनी स्वर्णाद्रेः शिखरे पुरन्दरधनुर्व्यूहस्य निन्दावहम् ॥ ४॥ यत्पादान्तनखांशुचिन्तनवशादज्ञानमन्धं तमो- ऽप्यन्तं याति मुकुन्द तस्य भवतो ध्वान्तानि किं मूर्धनि । ज्ञातं त्वां दयितं समेत्यजलदा ये केशतामाश्रिता- स्ते बद्धाश्चपलागणैः प्रणयजक्रोधात्किरीटच्छलात् ॥ ५॥ त्वच्चक्षुः सवितुः सरोरुहरुचेः साक्षात्कथं गण्डयो- र्भाले च व्रजनाथ नर्तनपरा ध्वान्तार्भकाः सन्ततम् । निर्णीतं मुखनेत्रपङ्कजवनीमाध्वीकपानान्मुहु- र्माद्यन्तो मधुपा भ्रमन्ति परितो वक्त्रालकव्याजतः ॥ ६॥ त्वद्भाले निकषोपले विजयते काश्मीरगोरोचना- सम्भूतस्तिलकः परीक्षणविधौ किं हेमरेखोद्गमः । चाञ्चल्यं चपला विहाय जलदं किं वा समालम्बते किं वा मारकतस्थले समुदितः कन्दर्पवृक्षाङ्कुरः ॥ ७॥ त्वद्भूवल्लिमिषेण कार्मुकलतामाकृष्य पुष्पाशुगः कृत्वा चम्पककोरकं च तिलकव्याजेन बाणं हरे । लक्ष्यं कुन्तलनीलकण्ठमतुलश्रीचन्द्रकं विध्यति प्रायः शत्रुसमाननाम्न्यपिजने क्रोधो यदूर्जस्विनाम् ॥ ८॥ निःशेषप्रमदामनोमनसिजक्रीडामहामन्दिर- व्रीडावज्रकपाटिकाविघटनप्रौढाकृतिः कुञ्चिका । दुर्मानग्रहिलत्रिलोकमहिलामानच्छिदाकर्तरी श‍ृङ्गारद्रुममञ्जरी स्फुरति किं गोविन्द ते भ्रूलता ॥ ९॥ नो कार्यं श्रुतिवर्त्मलङ्घनमिदं नालीकमुग्धाकृतिः पर्यन्ताकलनं विधाय सहजस्वच्छेन भाव्यं सदा । अन्तः कृष्णमुपास्य तद्रुचिमता सम्भावना सर्वतः कार्येत्यम्बुजलोचनाक्षियुगलं मानं दधौ ते सताम् ॥ १०॥ सौन्दर्यामृतदीर्घ्हिके तव दृशौ पक्ष्मावलिश्चैतयोः कूले कामकृषीवलेन रचिता श‍ृङ्गारसस्योन्नतिः । दृग्भङ्गीर्निगदन्ति यास्तु विबुधा रत्यम्भसां वीचय- स्ताः स्युर्गोपवधूहृदम्बुजवनीदोलायिता यत्नतः ॥ ११॥ दूरे ब्रह्मशिवेन्द्रपूर्वदिविषद्वृन्दे नमस्कुर्वति व्यावल्गद्व्रजबालकौघलगुडत्रुट्यत्किरीटे हठात् । सावज्ञा मधुमत्तसुन्दरदृशां शोभाद्विषः सालसाः दृक्पातास्तव नन्दवंशतिलक स्वान्ते सदा सन्तु मे ॥ १२॥ मुक्तेरप्यतिदुर्लभा हिमगिरिप्रस्यन्दिमन्दाकिनी- धारातोऽप्यतिशीतलातिमसृणा चान्द्रान्मयूखादपि । वाञ्छातोऽप्यतिविस्तृता विषयिणां त्वत्पादचिन्तापर- स्वान्तादप्यतिनिर्मला मयि कृपादृष्टिस्तवास्तां हरे ॥ १३॥ कल्पान्ताग्निशिखोन्नतिर्दितिसुतव्राते प्रपन्ने जने पीयूषद्रवसिन्धुवृद्धिरमरस्तोमे विभूत्यायतिः । सीमा प्रेमभरस्य गोपनिकरे कन्दर्पकाण्डाहति- र्ब्रह्माण्डोदरसुन्दरीहृदि हरे जीयाद्दृशोस्ते द्युतिः ॥ १४॥ निर्बन्धेन यदीन्द्रनीलमहसा सम्पादितौ दर्पणौ ताभ्यां किं तुलना कपोलतलयोः सम्भाव्यते वा न वा । एवं ज्ञातुमुपागते श्रुतिपथं नेत्रे त्रपाकुञ्चिते शङ्के द्वैधवती त्वदीयवदनप्रान्तश्रियं पश्यतः ॥ १५॥ त्वां पादाङ्गदकङ्कणाङ्गदशिरोलङ्कारहाराम्बरैः सम्पूज्य प्रददौ सुतामथ मणिं रत्नाकरः कौस्तुभम् । आस्ये तस्य सुतः सुधांशुरखिलां कान्तिं यदा दत्तवा- न्स्वाकारं व्यतरंस्तदैव मकराः किं कुण्डलान्तस्तव ॥ १६॥ लावण्यामृतवाहिनी तव मुखस्येयं मनोज्ञाकृति- स्तस्यामद्भुतबुद्बुदः समभवत्तत्रापि फेनोद्गमः । नासावंशगतं तमेव विशदं मुक्ताफलं ये विदु- स्ते मान्या मधुसूदन त्वयि मनोवृत्त्यैव धन्या यतः ॥ १७॥ नेत्राम्भोजमुखेन्दुभालतिलकैर्नित्यं विवादो यतः सौन्दर्यार्थमिति प्रतीत्य विधिना सीता कृता नासिका । तूणी वा कुसुमायुधस्य नृपतेर्यन्मल्लिकाकोरकः काण्डस्तत्र चकास्ति मौक्तिकफलव्याजेन नन्दात्मज ॥ १८॥ योऽहं ते पदपङ्कजद्युतिलवं प्राप्याभवं पल्लवः कल्पक्ष्मारुहमस्तकाभरणतां यातश्च राधापते । तं मां निन्दति बिम्बविद्रुमलताश्रीतस्करोऽयंश्रुता- वेवं जल्पितुमागते किसलये स्थानेऽधरो रागवान् ॥ १९॥ दृग्भङ्गीः स्फुरदिन्द्रनीलनिचयः पक्ष्माणि कस्तूरिका जिह्वेयं तव पद्मरागनिकरः शोणाधरो विद्रुमः । दन्ताली गजमौक्तिकानि मधुजिन्मन्दस्मितं चन्दनं पण्यस्थानमिदं मनोजवणिजो जाने तवास्ते मुखम् ॥ २०॥ या रक्ता वदनेन्दुमण्डलगतं माधुर्यमुच्चैस्तरा- मास्वाद्येह सरस्वती स्थितवती सत्यं रसज्ञेव सा । यत्सप्तस्वरमण्डलानि बहुधा त्वत्कण्ठदेशाद्बहिः प्रादुर्भूय मुदं श्रुतौ सुकृतिनां यच्छन्ति नन्दात्मज ॥ २१॥ साम्यं त्वद्वदनस्य वाञ्छति विधुर्दोषाकरो यद्यपि क्षिप्तोऽप्यम्बुनि पद्मरागशकलो दन्तच्छदं स्पर्धते । दृष्ट्वैवं कुशलः कुशेशयभवः क्लेशाद्यशोदात्मज व्यक्तं त्वच्चिबुकं तथैव विदधे यत्तुल्यता न क्वचित् ॥ २२॥ माधुर्यं न लवं मधूनि दधति द्राक्षा तु साक्षाद्विषं पीयूषान्यपि यान्ति निम्बसमतां के दुग्धखण्डादयः । प्रालेयानि न शीतलानि सरसं नो कोकिलाकूजितं गोधुग्वंशवतंस जातु जयति त्वद्वाग्विलासोदये ॥ २३॥ वेदाश्चन्द्रमसं वदन्ति भवतः स्वान्तं कथं तद्वृथा- कुर्वन्त्यत्र विवादमात्रकुशला गोविन्द नन्दादयः । तस्यैवामृतपङ्किलास्तव मुखादाविर्भवन्तो बहि- र्ध्वान्तं यत्तिरयन्ति हन्त किरणा मन्दस्मितव्याजतः ॥ २४॥ यन्नामस्मरणादपि श्रवणतः प्रक्षीणरागाशया यान्ति त्वत्परमं सदाशिवपदं यद्योगिनां दुर्लभम् । तस्याप्याननपङ्कजे तव जयत्युच्चैस्तरां रागिता येनाभीरकुलप्रदीप तदलं ताम्बूलमास्तां मुदे ॥ २५॥ पीयूषद्रवसारसारघमधुद्रोणी त्वदीयाधरा- स्वादायार्कसुतातटे श्रितवती सद्वंशजाता तपः । तत्पुण्यैर्मुरलीमिषेण रसिका माधुर्यमुच्चैस्तरा- मास्येन्दोरनुभूय गोकुलपते गीतामृतं मुञ्चति ॥ २६॥ साफल्यं श्रुतिसम्पदां त्रिजगतां प्रालेयधाराप्रपा पीयूषद्रवमाधुरी परिभवक्लेशाम्बुधेः शोषणम् । ब्रह्मानन्दतिरस्कृतिः कुलवधूधैर्याद्रिवज्राहतिः कंसध्वंसन शंस किं न भवतो वंशीनिनादोदयः ॥ २७॥ धैर्यं धिक्कुरुते त्रपां विचिनुते कौलं यशः प्रोञ्छति प्रत्येकं गुरुवर्गगञ्जनशतं विस्मारयत्यञ्जसा । साध्वीनाम निराकरोति भवनं भर्तुर्विधत्ते विषं किं किं नो विदधाति हन्त सुदृशां वंशीनिनादस्तव ॥ २८॥ लावण्यैरखिलैस्त्वदास्यमुकुरं निर्माय घाता चिरा- न्मुष्टिं मारकतं विधाय तदधः कण्ठस्थलव्याजतः । ध्यायं ध्यायमशेषवस्तुसुषमाधाराय रेखात्रयं ब्रूते नास्ति बभूव नो न भविता सौन्दर्यमेतादृशम् ॥ २९॥ आशानागकरप्रसारिमहसा निःशेषवामभ्रुवा- माशाभिस्त्रिदशेशनिर्भरशुभैः कंसादिनाशश्रिया । प्रेम्णा नन्दयशोदयोस्तनुजुषां निःसीमभाग्यैर्दृशां सौभाग्यैर्व्रजसुभ्रुवां व्रजपते किं ते भुजौ निर्मितौ ॥ ३०॥ कं यस्मादलमभ्युदेति भवतः सर्वाङ्गमेतादृशं साम्यं वा भजतां कथं जलरुहे सर्वज्ञमध्यस्यतोः । मत्तर्कः पुनरत्र गोकुलपते त्रैलोक्यलक्ष्मी यत- स्त्वत्पाण्योरिति तौ वदन्ति कमले सा यत्तदेकालया ॥ ३१॥ अङ्गुल्यस्तव हस्तयोर्मुरहर प्रायो रसालाङ्कुर- श्रेणी यत्परितोऽङ्गुलीयकमिषस्निग्धालवालावलिः किं वा पञ्चशरप्रचण्डतपसा पञ्चाशुगाः पञ्चतो- त्तीर्णाः सत्फलिनः पुनर्भवरुचा पुष्णन्ति नेत्रोत्सवान् ॥ ३२॥ भक्तानुग्रहकातरेण भवता कृत्वा नृसिंहाकृतिं रागान्धस्य पुरा हिरण्यकशिपोर्वक्षस्थली पाटिता । तेनाभूत्तव पाणिपङ्कजयुगे रागः स राधापते गोपीनां कुचकुङ्कुमैर्द्विगुणितो नाद्यापि विश्राम्यति ॥ ३३॥ एतौ पञ्चशिरस्त्विषा दशदिशः सम्भावयन्तौ भृशं दैत्यप्राणसमीरसंहतियमौ श्यामौ भुजङ्गोत्तमौ । तन्मौलिद्युतिशालिनी पुनरियं रत्नावली जृम्भते यां प्राहुस्तव गोकुलेश नखरश्रेणीं करस्थां जनाः ॥ ३४॥ दोर्दण्डद्वयबन्धनानि विदधुर्नन्दोपनन्दादय- स्तद्ग्रन्थित्रुटिशङ्कयातिचकिता गोवर्धनोद्धारणे । तान्येवाप्रतिमप्रभाणि हरितो विद्योतयन्त्यद्भुतं विद्वांसस्तव कङ्कणाङ्गदतया गोविन्द यज्जानते ॥ ३५॥ श‍ृङ्गारद्रुमसारकण्डनवशात्त्रैलोक्यसीमन्तिनी- क्रीडामन्दिरमण्डनाय विधिना स्तम्भौ प्रलम्बौ कृतौ । तन्मध्ये पुनरिन्द्रनीलमणिभिः सम्पादिता वेदिका तौ बाहू मधुजिद्वदन्ति भवतो वक्षःस्थलीं तामपि ॥ ३६॥ यद्रक्तः कमलाकरं करतलेनालम्बते भास्कर- स्त्वच्चक्षुर्मुखपाणिपादकमले जातस्ततः शोणिमा । तन्मित्रं पुनराकलय्य स धृतः कण्ठे त्वया कौस्तुभ- व्याजेनेति मुकुन्द मादृशि जने तर्कः समुज्जृम्भते ॥ ३७॥ आलोक्याखिलवेदशास्त्रजलधेस्तत्त्वं यदेकान्ततः कृत्वा सङ्कलितं स्वकीयनिलये क्षीराब्धिमध्ये धृतम् । सर्वार्थप्रतिभासकं व्रजकुलालङ्कार तत्कौस्तुभ- व्याजाद्विस्मृतिशङ्कयेव भवता कण्ठे कृतं साम्प्रतम् ॥ ३८॥ यात्वा विष्णुपदं समाश्रितवती नक्षत्रमाला स्फुर- द्दीप्तिर्योग्यमिदं कथं मुररिपो नक्तन्दिनं द्योतते । आं ज्ञातं दयितं तवाननविधुं यान्तीमिमां यामिनी रोमश्रेणिमिषात्ततो धृतवती ज्ञात्वा सप्त्नीमियम् ॥ ३९॥ यः पाशेन यशोदया नियमितो येनापराधं विना तस्मिन्नस्ति वलिस्त्रिधा मयि पुरः सोऽयं बलिध्वंसिनः । एवं चिन्तनतत्परः कृशतरस्त्वन्मध्यदेशो भृशं याशोदेय स शोकमुद्गिरति ते रोमावलिव्याजतः ॥ ४०॥ सृष्ट्यादौ प्रकृतिर्गुणत्रयमयी या स्वीकृताऽऽसीत्त्वया सेयं सत्त्वमयी सुखाय जगतां हाराकृतिस्ते भुवि । गुञ्जादाममिषान्मुकुन्द दधती रागाद्रजोविग्रहं नाभीसीम्नि तमोमयी पुनरियं रोमावली राजते ॥ ४१॥ सौन्दर्यामृतवारिधौ स्मरमहायादःसमारम्भतः सम्भूता भ्रमिरम्भसां सुललिता जातास्ततो वीचयः । तां जाने स्फुरदिन्द्रनीलघटितश्रीसम्पुटार्धद्युतिं त्वन्नाभीमपि तां वलित्रयमिति श्यामाभिरामाकृते ॥ ४२॥ नीलाम्भोरुहवल्लिरुल्लसति ते नाभीसरस्यां ध्रुवं यच्छ्रीवत्समिषाद्बिभर्ति कुसुमं नालं च रोमावली । यं वा वक्षसि कौस्तुभं बुधजना जानन्ति नन्दात्मज प्रायः सोऽप्यनुराग एव भविता त्रैलोक्यवामभ्रुवाम् ॥ ४३॥ नीरूपोऽपि घनद्युतिर्मुनिमनोमात्रैकपात्रीकृतो- ऽप्याभीरीगणसङ्गतः सुखघनोऽप्यानन्दितो बन्धवैः । ज्ञानात्माप्यतिमुग्धतामुपगतो वामभ्रुवां विभ्रमै- रित्थं ते त्रिवलीमिषान्मुरहर त्रय्यस्ति चित्रार्पिता ॥ ४४॥ देव्यः पल्लवसम्पदा विदधते सौभाग्यलक्ष्मीं श्रुतौ स्वच्छन्दं सुमनःफलानि विबुधा विन्दन्ति ते सेवया । वेदेनापि निगद्यते मुरहर त्वं भक्तकल्पद्रुमः प्रायः कल्पलता ततः श्रितवती त्वां वैजयन्तीछलात् ॥ ४५॥ विश्वानन्दकदम्बसम्पदमतिस्निग्धं तमालद्युतिं दृष्ट्वा निर्भरविभ्रमं घन इति त्वां सङ्गता विद्युतः । त्वद्रूपामृतसिन्धुसङ्गमवशात्प्राप्याम्बरप्रच्यवं चाञ्चल्यात्किमु नन्दनन्दन भवत्पीताम्बरत्वं दधुः ॥ ४६॥ काञ्ची ते धृतयोगसम्पदभितो जाता विशालाकृति- र्यावन्ती मधुरा ध्वनिं विदधती पश्चादयोध्याभवत् । मायाद्वारवती शिवाधिवसतिः सा काशिका दृश्यते तच्चित्रं न वदामि माधव यतस्त्वां सा सदा संश्रिता ॥ ४७॥ जानीमः सहजां त्वदङ्गमिलितामालोक्य पद्मालयां तत्सङ्गस्थितिभङ्गकातरतमौ कल्पद्रुमैरावतौ । आद्यः पल्लवसम्पदं करपदे बिम्बाधरे चापरः शुण्डादण्डगुणं तवोरुयुगले येनादधे माधव ॥ ४८॥ रम्भास्तम्भयुगं न तद्यदुपरि स्थूलं तथोरुद्वयं तूणीरौ मकरध्वजस्य सुमनोमोदेन विद्मो वयम् । हा कष्टं मधुकैटभौ स्फुटमदौ किं कैटभारे हठा- न्निष्पिष्टौ शतकोटिकोटिकठिनौ तस्मिन्स्थले कोमले ॥ ४९॥ स्तम्भद्वैतमिदं पयोनिधिसुतागेहस्य मन्दाकिनी- स्यन्दामन्दमरन्दिताङ्घ्रिकमलद्वन्द्वस्य नालायुगम् । त्वज्जङ्घायुगलं विमुक्तिकलशीनिर्माणदण्डद्वयं सम्पत्तिद्विपसङ्घयन्त्रणविधावालानयुग्मं भजे ॥ ५०॥ विद्वान् सोऽपि कथं कठोरकमठीपृष्ठेन तुल्यं वद- न्नीदृक्पादयुगं कथं नु कमलावक्षोजशैले दधत् । धिङ्मन्दां वसुधामिदं मधुरिपो गोचारणे सञ्चरत्- पाषाणाङ्कुरकण्टकादिषु हठाद्दृष्ट्वा विदीर्णा न यत् ॥ ५१॥ यद्रत्नौघमरीचयोऽपि समताव्यावर्तनं विश्वतः कृत्वा दिग्वलयं भ्रमन्ति महिता नादैर्मधुस्यन्दिभिः । यच्च ब्रह्मशिवेन्द्रवन्दितपदद्वन्द्वोपरि द्योतते तत्कृष्णस्य पदाङ्गदद्वयमतः किं वर्ण्यतां मादृशैः ॥ ५२॥ शेते यत्कमलालया तव पदाम्भोजद्वये संगता धाता तत्र तनूपधान्युगलं गुल्फच्छलान्निर्ममे । किं वा मन्मथकारुणा विरचिते तस्या मुदे कन्दुके सा यत्क्रीडति पाणिपङ्कजतले कृत्वा सखीभिः सह ॥ ५३॥ या रक्ता दशलोकपालमुकुटप्रान्तत्विषः सन्ततं कल्पक्ष्मारुहपुष्पसम्भृतरुचस्त्वत्पादमूले बभुः । ता दीव्यन्नखराञ्चिताङ्गुलितया जानन्ति सत्यं जनाः स्वस्मिन्नेव सदाधरेण दधते लेखा यदूर्ध्वश्रियम् ॥ ५४॥ पीयुषद्युतिबिम्बमम्बरतले विद्योतमानं पुरः प्रेक्ष्योत्फुल्लदृशा त्वया मुहुरिदं देहीति यद्भाषितम् । तन्मन्ये तव पङ्कजेक्षण महच्चित्रं यशोदार्थनं यत्त्वत्पादसरोजयोर्नखमणिव्याजेन शीतांशवः ॥ ५५॥ सत्यं यद्विबुधा वदन्ति पदयोर्द्वन्द्वं तवाम्भोरुहे गोधूलिच्छलतः स्थितानि परितो हंसालिचेतांस्यलम् । पीत्वैतन्मकरन्दबिन्दुमसकृद्वृन्दावनीभूपते मञ्जीरद्वयमञ्जुशिञ्जितमिषादञ्चन्ति यत्पञ्चमम् ॥ ५६॥ आकृप्याखिलवस्तुतः प्रथमतो रागं मुनीन्द्रैस्ततः कृत्वा मानसपङ्कजे तव पदद्वन्द्वं स तस्मिन्धृतैः । येनास्मिन्नरविन्दलोचन पुनस्तत्केसराणां द्युति- स्तोमेनापि समञ्चितः समुदयत्युच्चैस्तरां शोणिमा ॥ ५७॥ हंसास्त्वामुपनीय मानससरोजन्मप्रदेशेऽनिशं क्रीडन्तः कमलालयेन भवता सार्धं प्रमोदं दधुः । स त्वं लोचनलोहिताधरपदद्योतः श्रितो हंसतां var लोहितलोचना तत्सम्पर्कवशादिति व्रजकुलालङ्कार शङ्कामहे ॥ ५८॥ क्षुद्रात्मा नितरां किमुन्नततरः काठिन्यवान्निर्भयं किं या केवलकोमलः श्रयति चेत्किञ्चिन्मदीयं पदम् । धन्यः सोऽयमितीव लोकमखिलं सम्बोधयन्माधव त्वं धत्से पदयोर्यवं ध्वजवरं दम्भोलिमम्भोरुहम् ॥ ५९॥ त्वां नित्यं समुपास्य दास्यविधया स्थास्याम इत्याशया ब्रह्मेन्द्राद्यमरैस्त्वदीयपदयोः स्वीया धृताः सम्पदः । तासामङ्कुशनीरजाशनिलसच्छत्रध्वजाद्याकृतिं बिभ्राणा विजयश्रियं त्रिजगतां वन्द्यारविन्दालया ॥ ६०॥ त्वत्पादाम्बुजसङ्गमात्त्रिजगतां वन्द्यारविन्दालया स्थाने स्थानगुणाद्भवन्ति हि जनाः प्रायः पदं सम्पदाम् । किं त्वेकं शतपत्रलोचन महच्चित्रं यदस्मादधः पाता पुण्यतमा विमुक्तिनगरीनिःश्रेणिका स्वर्धुनी ॥ ६१॥ यत्पादाम्बु विधाय मूर्धनि चितावासः शिवत्वं हठा- त्प्राप्तो भक्षितकालकूटनिकरो मृत्युजयत्वं ययौ । दिग्वासा नृकपालमात्रविभवश्चाविन्ददीशानतां स त्वं नन्दसि यस्य मन्दिरगतो नन्दाय तस्मै नमः ॥ ६२॥ धूलीधूसरितं मुखं तव शरत्पूर्णेन्दुनिन्दावहं व्यालोलालककुण्डलद्युति चलन्नेत्रश्रिया प्रोल्लसत् । यालोक्यार्द्रविलोचना स्मितमुखी प्रस्यन्दमानस्तनी पाणिभ्यामवलम्ब्य चुम्बितवती तां नन्दजायां भजे ॥ ६३॥ पीत्वा स्तन्यविषं सहासुपवनैः सम्पातिते पूतना- देहे वै भवता जनार्दन तृणावर्ते च नीते क्षयम् । राहून्मुक्तसुधामयूखसुषमा यादृक्चकोरालिभि- र्याभिस्त्वद्वदनद्युतिश्चुलुकिता ता गोपकन्याः स्तुमः ॥ ६४॥ यद्बन्धस्य विधित्सयापि विवशः कीनाशपाशैर्दृढं बद्धः सानुगपुत्रबान्धवजनो दुर्योधनोऽन्तं गतः । तं त्वां येन निबध्य नन्ददयिता वृन्दारकैर्वन्दिता जाताऽऽनन्दमयी मुकुन्द महते भावाय तस्मै नमः ॥ ६५॥ निर्भिन्ने यमलार्जुनेऽतिचकितास्तूर्णं गृहान्निर्गताः पीत्वा दृक्चषकैस्त्वदक्षततनूरूपामृतं निर्वृताः । त्वामादाय विधाय नेत्रसलिलैः सिक्तं त्वरामाश्रिता ये वृन्दावनमागताः कृतधियस्तान्गोपवृद्धान्स्तुमः ॥ ६६॥ कृत्वा कालियदन्दशूकदमनं त्वय्यास्थिते ताण्डवं तस्योत्तब्धसमस्तमस्तकमणिस्तोमे समुत्तस्थुषि । येनालम्भि विभातभास्करसुरप्राग्भारशोभास्फुर- द्रत्नाम्भोजयुगद्युतिः प्रतिपदं तत्तेऽङ्घ्रियुग्मं भजे ॥ ६७॥ उत्फुल्लैः परिपीय कर्णपुटकैर्वंशीनिनादामृतं तच्च घ्राणमुदस्य दत्तकवलं प्रोद्भिन्नरोमाङ्कुरम् । निःस्पन्दैर्नयनैरमन्दमधुरैः श्यामं महस्तावकं येनोद्वीक्षितमम्बुजेक्षण भजे तद्गोकदम्बं तव ॥ ६८॥ जम्मारेः स्फुरदायुधस्य भवता दम्भाद्रिविद्रावणं कृत्वा वामभुजेन सप्तदिवसान्योऽसौ धृतः पर्वतः । सोऽस्तु स्निग्धतमालसारघटितस्तम्भैकसम्भावित- प्रासादद्युतिनिन्दकः प्रतिपदं भव्याय गोवर्धनः ॥ ६९॥ त्वद्बाहूद्धृतपर्वतार्पितदृशः प्रेक्ष्य प्रियायाः स्खल- द्वासःपीनपयोधरक्षितिधरौ दोःस्तम्भकम्पे तव । शैले चञ्चलतां गते व्रजपते त्रासाकुले गोकुले नन्दे मन्दमुखद्युतौ जयति ते मन्दाक्षमन्देक्षणम् ॥ ७०॥ पौगण्डं मदखण्डनं बलभिदः किं ते हरे स्तूयते कौमारं चरितं यतो विजयते व्यामोहनं ब्रह्मणः । किं स्तव्यं तव यौवनं त्रिपुरजिद्यद्बाणयुद्धे जितः सम्मोहं गमितास्त्वया यदबला भावेऽपि नेत्रश्रिया ॥ ७१॥ पीते दावहुताशने निजजनत्राणैकहेतोस्त्वया निःस्पन्दं पशुपौघपक्षिपशुभिः पेपीयमाने त्वयि । प्रेमार्द्राण्यतिनिर्मलानि दिविषच्चित्तानि सत्यं मुहु- स्त्वद्गात्रे नु वितीर्यमाणकुसुमव्याजेन भान्ति प्रभो ॥ ७२॥ कङ्केल्लिस्तबकं मुहुः कमलिनीकान्तं प्रतीचीगतं पर्यालोच्य विलोक्य धूमपटलं गोधूलिबुद्ध्याकुलाः । उच्चैः कोकिलकूजितं च मुरलीनादं विदित्वा गृहा- त्त्वां या वीक्षितुमागताः पथि गवां गोपाङ्गनास्ताः स्तुमः ॥ ७३॥ सायाह्ने समुदञ्चति श्रुतिपथं वंशीनिनादे हठा- न्नेपथ्यस्य समापनेन शपथैरालीजनैः प्रार्थिते । पाणिभ्यामवलम्ब्य नीविरशना निर्गम्य तूर्णं बहि- र्दृग्भ्यां ते मुखसौरभं चुलुकितं याभिर्भजे ता जनीः ॥ ७४॥ यत्राघासुरकेशिधेनुकबकारिष्टप्रलम्बादयः क्रोधाग्नौ भवता हुता दितिसुताः सन्तर्पिता देवताः । यस्मिंस्ते पदपङ्कजद्वयरजः पद्मोद्भवप्रार्थितं भेजुर्गोमृगपक्षिभूरुहलता वृन्दावनं तद्भजे ॥ ७५॥ देवेन्द्रस्य पराभवं किमपरं व्यामोहनं ब्रह्मणः सम्पश्यन्नपि वैभवं व्रजकुलोत्तंस प्रचेतास्तव । नन्दं यत्पितरं जहार भवतः स्थाने जलात्मन्यदः स्थाने तादृशि ते बभूव न मनाक्क्रोधस्य लेशोऽपि तत् ॥ ७६॥ मञ्जीरद्वयकङ्कणावलिलसत्काञ्चीघटाशिञ्जिते वीणावेणुमृदङ्गझर्झरकरोत्ताले दिशश्चुम्बति । कामं पूर्णकलानिधौ विलसति भ्रश्यत्पटे स्वर्वधू- वृन्दे वर्षति दैवते सुमनसो रासस्तवास्तां मुदे ॥ ७७॥ नृत्यद्भ्रूनयनोत्पलस्मितमुखस्विद्यत्कपोलस्थलं लीलाचञ्चलकुण्डलं भुजलतान्दोलक्वणत्कङ्कणम् । त्रुट्यत्कञ्चुकबन्धमुन्नतकुचं तिर्यक्त्रिकं प्रस्खल- न्नीवि व्यञ्जितशिञ्जितं जयति ते रासः प्रियाभिः सह ॥ ७८॥ आकुञ्चद्वदनं क्वचिद्विलसिताम्भोजास्यशोमं क्वचि- न्मन्दस्यन्दिविलोचलं क्वचिदलं दृक्चापलं कुत्रचित् । क्वाप्युद्दाममदान्धसिन्धुरगतं कुत्रापि विदुल्लता- चाञ्चल्यं स्मरवर्धनं विजयते लास्यं प्रियाणां तव ॥ ७९॥ अध्यास्योरुतलं वपुः पुलकितं स्विद्यत्कपोलस्थलीं दोर्वल्लीमपि तावकांसमिलितां कम्पाकुलां बिभ्रति । प्रोद्यत्पूर्णकलानिधावरुचिरे स्मेरे मुहुःसीत्कृते राधा धन्यतमा दधार वदने ताम्बूलकल्कं तव ॥ ८०॥ यस्यां तुङ्गतरङ्गसङ्गमवशाद्भीता भुजङ्गभ्रमा- दालिङ्गति वराङ्गनास्तव जलक्रीडाजुशोऽङ्गं हठात् । सा नित्यं दलितेन्द्रनीलनिकरश्रीतस्करा भास्कर- स्यापत्यं तटिनी शिवं दिशतु मे गोपालभूपालज ॥ ८१॥ उत्फुल्लाम्बुजमाकलय्य दयितास्मेराननं विभ्रम- द्भृङ्गश्रेणिमनङ्गभङ्गुरदृशस्तस्याः कटाक्षच्छटाम् । शैवालं परिगृह्य कुन्तलधिया द्राक्चुम्बनायोद्यत- स्त्वं यस्यां हसितः प्रियाभिरभितस्तां भानुकन्यां भजे ॥ ८२॥ पुष्पं त्वय्यवचिन्वति प्रियतमावृन्देन सार्धं मुदा वृन्दारण्यमहीरुहस्य निकरे कम्पाकुले निर्भरम् । तस्मिन्वर्षति कौतुकेन कुसुमान्युच्चैः पुनर्दैवत- स्तोमेऽपि व्रजभूपते विजयते तैस्तैश्चितं ते वपुः ॥ ८३॥ कान्ताकोटिकलाकुलस्य भवतः सन्तोष्य रासे स्मर- क्षीणां वीक्ष्य निशां निशाकरकरस्तोमे परं मुञ्चति । सातङ्कं समुपागतस्य सदनाद्यान्तं शयाने जने कीरस्यापि गिरा जयन्ति परितः पर्याकुला दृष्टयः ॥ ८४॥ उद्यन्नेव भवानिव व्रजभुवां सर्वापदां संहति- ध्वान्तस्तोममनुत्तमं तमनयत्कान्तः सरोजन्मनाम् । सोल्लासानि सरोरुहाणि नयनानीव त्वदालोकने लोकानां किल नन्दवंशतिलक स्वापस्य नायं क्षणः ॥ ८५॥ मित्रेणेह तमस्विनीं विनिहतां नाथ त्वया पूतनां व्याधूतामिव कैरवेष्वपि भवद्विद्वेषिवक्त्रद्युतिम् । आशां पश्य पुरन्दरस्य दयितां रक्ताम्बरालङ्कृतां सिन्दूरान्वितकुम्भमम्बरमणेर्बिम्बं वहन्तीं पुरः ॥ ८६॥ गीतज्ञाः कवयो नटा बहुकलाशिक्षासु दक्षाः परे विप्रेन्द्राः कुशपाणयोऽपि भवनद्वारेषु सन्त्युत्सुकाः । तल्पं मुञ्च ददस्व लोचनफलं त्वं देहभाजामिति प्रातर्वन्दिगिरो जयन्ति भवतः सम्बोधने नित्यशः ॥ ८७॥ (विशेषकम्) भानोर्मण्डलमाविरस्ति पुरतो नाद्यापि निद्राहतिः किं ते तात बलानुजेति जननीवाग्वीचिमाचामतः । अर्धोन्मीलितपाटलाक्षियुगलं पर्यस्तनीलालकं जृम्भारम्भविशेषशोभि वदनाम्भोजं भजामस्तव ॥ ८८॥ मुञ्चन्तं शयनं भवन्तमभितः सङ्गम्यगोपाङ्गना- स्तैलाभ्यञ्जनमञ्जनादि दधतीः संवीक्ष्य देव्यश्चिरम् । उज्झन्त्यः सुमनोऽम्बराणि सुमनोभावा वरं सङ्गताः प्रायो गोपवधूत्वलब्धिमनसैवाकाशसाम्यं दधुः ॥ ८९॥ var भूयो प्रातर्भोजनमारचय्य विपिनं प्रस्थातुकामे त्वयि प्रायो गोपवधूलतासु मिलितः कन्दर्पदावानलः । यद्गोधूलिमिषादुदेति परितो धूमालिरभ्रंलिहा तासामश्रुरसाः स्रवन्ति च मुहुर्दन्दह्यमानेऽन्तरे ॥ ९०॥ पञ्चास्ये चतुरानने दशशतीनेत्रादिपूर्वे गवा- मध्वन्यध्वनि लोकपालनिवहे भूमीलुठन्मूर्धनि । तद्व्याघ्राजिनभूषणादिभिरलं त्रस्ते समस्ते पशौ गोपाः कोपवशाद्गृहीतलगुडा हीहीरवाः स्युर्मुदे ॥ ९१॥ तिग्मांशौ तपति क्वचिज्जलमुचां स्तोमे जलं मुञ्चति प्रेमार्द्रः प्रतनोति यः स्ववपुषा चित्रातपत्रं तव । सोऽयं भास्करकोटिभास्वरमहःसम्भारपाटच्चरः पारीन्द्रोऽसुरदन्तिनां दिशतु में भव्यं भुजङ्गान्तकः ॥ ९२॥ मध्याह्ने यमुनातटे विटपिनां मूले वयस्यैः समं दध्यन्नान्युपभुज्य रज्यति पुनस्तत्क्रीडने च त्वयि । देवेन्द्रस्त्रिपुरान्तकः कमलभूरन्ये च नाकालयाः काकाकारजुषो मुहुः कवलयन्त्युच्छिष्टमिष्टं तव ॥ ९३॥ निद्राणे त्वयि शीतले तरुतले तल्पै दलैः कल्पिते संवीक्ष्याम्बुजपत्रमन्दमरुता संवाहिते पादयोः । रुद्रब्रह्ममहेन्द्रतर्जनविधौ गोपार्भकाणां कर- व्याधूतानि जयन्ति भङ्गुरदृशां कान्तिश्च शोणायिता ॥ ९४॥ स्फूर्जन्तस्तपसा पुलस्त्यपुलहागस्त्याः सदुर्वाससः सन्त्युच्चैर्यशसः परेऽपि स परं धन्यो मुनिर्नारदः । यस्य त्वद्गुणगानमग्नमनसो व्यापादिते केशिनि प्रालेयाद्रिविनिःसृतामरधुनीधारायतेऽस्रावलिः ॥ ९५॥ लक्ष्माणि ध्वजवज्रपङ्कजयवच्छत्रोर्ध्वलेखायुता- न्यालक्ष्म्याम्बुरुहाक्ष ते चरणयोः क्षोणीतलेऽह्नाय यः । ध्यायत्त्युत्पुलकत्युदञ्चति लुठत्याक्रन्दति प्रीयते कोऽन्यो धन्यतमस्ततस्त्रिभुवने स्याद्गान्दिनीनन्दनात् ॥ ९६॥ धन्यं तस्य जनुस्तथैव पितरौ धन्यं तदीयं कुलं धन्या तेन वसुन्धरा किमधिकं तेनैव धन्यं जगत् । यः कंसैकनिदेशवर्त्यपि भवत्पादाम्बुजालोकना- दक्रूरोऽश्रुनिरुद्धकण्ठकुहरः प्रेमाब्धिमग्नोऽजनि ॥ ९७॥ पर्यावृत्त्य पशूनशेषसखिभिः साकं त्वया स्वीकृते गोपीलोचनपङ्कजालिनिचिते सायं गवामध्वनि । जीयासुर्दयिताननेषु नितरां साकूतनृत्याकुलाः कालिन्दीसदृशाः स्मितेन सुरसास्त्वच्चक्षुषोः कान्तयः ॥ ९८॥ यो वाचो मनसोऽपि नैव विषयस्त्वं त्वां विधायात्मजं याभ्यङ्गस्नपनाशनप्रभृतिभिः संलालयत्यन्वहम् । नो दानेन न चेज्यया न तपसा नो साङ्ख्ययोगादिभि- र्यल्लभ्यं तदवाप गोपदयिता साऽऽस्तां यशोदा मुदे ॥ ९९॥ पूर्णे दानपतेर्मनोरथशतैः सार्धं प्रलम्बारिणा तल्पे निन्दितदुग्धसिन्धुसुषमासारे त्वया स्वीकृते । सन्दष्टोष्ठमुदश्रु मर्दितकरं तच्चेष्टितं श‍ृण्वतः कंसध्वंसमभीप्सतो जयति ते भ्राता समं मन्त्रणा ॥ १००॥ या संव्याप्य सुवर्णभूधरपदं जाता गिरीशार्चिता स्वच्छा हंसकविप्रिया कमलमुद्गाम्भीर्यमभ्यञ्चति । येयं कृष्णपदाब्जभक्तिवसुधापातालमालम्बिता सा तापं मम सर्वतः प्रशमयत्वानन्दमन्दाकिनी ॥ १०१॥ ये पाण्डित्यकवित्वसूनुधरणीधर्मार्थकामाणिमा- दीशित्वेन्द्रपदाप्तिमोक्षमथवा वाञ्छन्ति भक्तिं हरौ । सम्भूतां मधुसूदनप्रपदतः सन्तो भजन्त्वादरा- त्ते संसारदवाग्नितापशमनीमानन्दमन्दाकिनीम् ॥ १०२॥ इति श्रीमन्नन्दनन्दनपदद्वन्द्वसमुदञ्चन्नखचन्द्रचन्द्रिकाचय- दत्तचित्तचकोरश्रीमधुसूदनसरस्वतीविरचितानन्दमन्दाकिनी सम्पूर्णा ॥