अक्षर आकार:

यमस्तोत्रं सावित्रीकृत ब्रह्मवैवर्तपुराणान्तर्गतम्

Yamastotra by Savitri

यमस्तोत्रं सावित्रीकृत ब्रह्मवैवर्तपुराणान्तर्गतम्

अथाष्टाविंशोऽध्यायः । श्री नारायण उवाच । हरेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः । साश्रुनेत्रा सुपुलका यमं पुनरुवाच सा ॥ १॥ सावित्र्युवाच । हरेरुत्कीर्तनं धर्म स्वकुलोद्धारककारणम् । श्रोतृणां च वक्तृणां जन्ममृत्युजराहरम् ॥ २॥ दानां च व्रतानां च सिद्धीनां तपसां परम् । योगानां च वेदानां सेवनं कीर्तनं हरेः ॥ ३॥ मुक्तत्वममरत्वं वा सर्वसिद्धित्वमेव वा । श्रीकृष्णसेवनस्यैव कलां नार्हन्ति षोडशीम् ॥ ४॥ भजामि केन विधिना श्रीकृष्णं प्रकृतेः परम् । मूढां मामबलां तात वद वेदविदां वरः ॥ ५॥ शुभकर्मविपाकं च श्रुतं नृणां मनोहरम् । कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि ॥ ६॥ इत्युक्त्वा सा सती ब्रह्मन्भक्तिनम्रात्मकंधरा । तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च ॥ ७॥ सावित्र्युवाच । तपसा धर्ममाराध्य पुष्करे भास्वरः पुरा । धर्मांशं यम् सुतं प्राप धर्मराजं नमाम्यहम् ॥ ८॥ समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः । अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥ ९॥ येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् । कर्मानुरूपकालेन तं कृतान्तं नमाम्यहम् ॥ १०॥ बिभर्ति दण्डं दण्ड्याय पापिनां शुद्धिहेतवे । नमामि तं दण्डधरं यः शास्ता सर्वकर्मणाम् ॥ ११॥ विश्वे यः कलयत्येव सर्वायुश्चापि संततम् । अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥ १२॥ तपस्वी वैष्णवो धर्मो संयमी विजितेन्द्रियः । जीविनां कर्मफलदं तं यमं प्रणमाम्यहम् ॥ १३॥ स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् । पापिनं क्लेशदो यस्य पुत्रो मित्रो नमाम्यहम् ॥ १४॥ यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा । यो ध्यायति परम् ब्रह्म ब्रह्मवंशं नमाम्यहम् ॥ १५॥ इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने । यमस्तां विष्णुभजनं कर्मपाकमुवाच ह ॥ १६॥ इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् । यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ॥ १७॥ महापापी यदि पठेत् नित्यं भक्त्या च नारद । यमः करोति तं शुद्धं कायव्यूहेन निश्चितम् ॥ १८॥ इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्रिकृतयमस्तोत्रं नामाष्टाविंशोऽध्यायः ॥ brahmavaivartapurANa prakRitikhaNDa adhyAya 28