अक्षर आकार:

यमप्रीत्यर्थं यमस्तोत्रम्

yamaprItyarthaM yamastotram

यमप्रीत्यर्थं यमस्तोत्रम्

ॐ नियमस्थः स्वयं यश्च कुरुतेऽन्यान्नियन्त्रितान् । प्रहरिणे मर्यादानां शमनाय तस्मै नमः ॥ १॥ यस्य स्मृत्या विजानाति भङ्गुरत्वं निजं नरः । प्रमादालस्यरहितो बोधकाय नमोऽस्तुते ॥ २॥ विधाय धूलिशयनं येनाहं मानिनां खलु । महतां चूर्णितो गर्वः तस्मै नमोऽन्तकाय च ॥ ३॥ यस्य प्रचण्डदण्डस्य विधानेन हि त्रासिताः । हाहाकारं प्रकुर्वन्ति दुष्टास्तस्मै नमो नमः ॥ ४॥ कृपादृष्टिरनन्ता च यस्य सत्कर्मकारिषु । पुरुषेश नमस्तस्मै यमाय पितृस्वामिने ॥ ५॥ कर्मणां फलदानं हि कार्यमेव यथोचितम् । पक्षपातो न कस्यापि नमो यस्य यमाय च ॥ ६॥ यस्य दण्डभयाद्रुद्धः दुष्प्रवृत्तिं कुकर्मकृत् । कृतान्ताय नमस्तस्मै प्रदत्ते चेतनां सदा ॥ ७॥ प्राधान्यं येन न्यायस्य महत्त्वं कर्मणां सदा । मर्यादारक्षणं कर्त्रे नमस्तस्मै यमाय च ॥ ८॥ न्यायार्थं यस्य सर्वे तु गच्छन्ति मरणोत्तरम् । शुभाशुभं फलं प्राप्तुं नमस्तस्मै यमाय च ॥ ९॥ सिंहासनाधिरूढोऽत्र बलवानपि पापकृत् । यस्याग्रे कम्पते त्रासात्तस्मै नमोऽन्तकाय च ॥ १०॥ इति श्रीयमस्तोत्रं समाप्तम् ॥