अक्षर आकार:

यमक काव्यं (घटकर्पर)

yamaka kAvyaM (ghaTakarpara)

यमक काव्यं (घटकर्पर)

घटकर्पर यमक काव्यम् निचितं खमुपेत्य नीरदाइः प्रियहीनाहृदयावनीरदैः । सलिलैर्विहतं रजः क्षितौ रविचन्द्रावपि नोपलक्षितौ ॥ १॥ हंसा नदन्मेघभयाद् द्रवन्ति निशामुखान्यद्य न चन्द्रवन्ति । नवाम्बुमत्ताः शिखिनो नदन्ति मेघागमे कुन्दसमानदन्ति ॥ २॥ मेघावृतं निशि न भाति नभो वितारं निद्राऽभ्युपैति च हरिं सुखसेवितारम् । सेन्द्रायुधश्च जलदोऽद्य रसन्निभानां संरम्भमावहति भूधरसन्निभानाम् ॥ ३॥ सतडिज्जलदार्पितं नगेषु स्वनदम्भोधरभीतपन्नगेषु । परिधीररवं जलं दरीषु प्रपतत्यद्भुतरूपसुन्दरीषु ॥ ४॥ क्षिप्रं प्रसादयति सम्प्रति कोऽपि तानि कान्तामुखानि रतिविग्रहकोपितानि । उत्कण्ठयन्ति पथिकाञ्जलदाः स्वनन्तः शोकः समुद्भवति तद्वनितास्वनन्तः ॥ ५॥ छादिते दिनकरस्य भावने खाज्जले पतति शोकभावने । मन्मथे च हृदि हन्तुमुद्यते प्रोषितप्रमदयेदमुद्यते ॥ ६॥ सर्वकालमतिलङ्घ्य तोयदा आगताः स्थ दयितो गतो यदा । निर्घृणेन परदेशसेवना मारयिष्यथ न तेन मा विना ॥ ७॥ ब्रूत तं पथिकपांशुलं घना यूयमेव पथिशीघ्रलङ्घनाः । अन्यदेशरतिरद्य मुच्यतां साऽथवा तव वधू किमुच्यतम् ॥ ८॥ हंसः पङ्क्तिरपि नाथ सम्प्रति प्रस्थिता वियति मानसम्प्रति । चातकोऽपि तृषितोम्बु याचते दुःखिता पथिक सा प्रिया च ते ॥ ९॥ नीलशष्पमतिभाति कोमलं वारि विन्दति च चातकोऽमलम् । अम्बुदैः शिखिगणो विनाद्यते का रतिः प्रिय मया विनाऽद्यते ॥ १०॥ मेघशब्दमुदिताः कलापिनः प्रोषिताहृदयशोकलापिनः । तोयदागमकृशा च साऽद्यते दुर्धरेण मदनेन साद्यते ॥ ११॥ किं कृपापि तव नास्ति कान्तया पाण्डुगण्दपतितालकान्तया । शोकसागरजलेऽद्य पातितां त्वद्गुणस्मरणमेव पाति ताम् ॥ १२॥ कुसुमितकुटजेषु काननेषु प्रियरहितेषु समुत्सुकाननेषु । द्रवति च कलुषे जले नदीनां किमिति च मां समवेक्षसे न दीनाम् ॥ १३॥ मार्गेषु मेघसलिलेन विनाशितेषु कामो धनुः स्पृशति तेन विना शितेषु । गम्भीरमेघरसितव्यथिता कदाहं जह्यां सखिप्रियवियोगजशोकदाहम् ॥ १४॥ सुसुगन्धितया वनेऽजितानां स्वनदम्भोधरवातवीजितानाम् । मदनस्य कृते निकेतकानां प्रतिभान्तीह वनानि केतकानाम् ॥ १५॥ तत्साधु यत्त्वां सुतरां ससर्ज प्रजापतिः कामनिवास सर्ज । त्वं मञ्जरीभिः प्रवरो वनानां नेत्रात्सवश्चासि सयौवनानाम् ॥ १६॥ नवकदम्ब शिरोऽवनतास्मि ते वसति ते मदनः कुसुमस्मिते । कुटज किं कुसुमैरुपहस्यते प्रणिपतामि च दुष्प्रसहस्यते ॥ १७॥ तरुवर विनतास्मि ते सदाऽहं हृदयं मे प्रकरोषि किं सदाहम् । तव कुसुम निरीक्सणेऽप्देऽहं विसृजेयं सहसैव नीप देहम् ॥ १८॥ कुसुमैरुपशोभितां सितै- र्घनमुक्ताम्बुलवप्रहासितैः । मधुनः समवेक्ष्य कालतां भ्रमरश्चुम्बति यूथिकालताम् ॥ १९॥ तासामृतुः सफल एव हि या दिनेषु सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु । रत्युत्सवं प्रियतमैः सह मानयन्ति मेघागमे प्रियसखीश्च समानयन्ति ॥ २०॥ कोकिलभ्रमरकोककूजिते मन्मथेन सकले जने जिते । निर्गतोऽसि शठ मासि माधवे नोपयासि शयिओऽपि माधवे ॥ २१॥ एतन्निशम्यविरहानलपीडिताया- स्तस्या वचः खलु दयालुरपीडिताया । स स्वारवेण कथितं जलधैरमोघैः प्रत्याययौ सदनमूनदिनैरमोघैः ॥ २२॥ भावानुरक्तवनितासुरतैः शपेय- मालम्ब्य चाम्बु तृशितः करकोशपेयम् । जोयेय येन कविना यमकैः परेण तस्मै वहेयमुदकं घटकर्परेण ॥ २३॥ ॥ समाप्तमिदं घटकर्पर यमक काव्यम् ॥