अक्षर आकार:

यमाष्टकं नरसिंहपुराणे

Yamashtakam from Narasimhapurana

यमाष्टकं नरसिंहपुराणे

श्रीव्यास उवाच -- स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ १॥ अहममरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः । हरिगुरुविमुखान् प्रशास्मि मर्त्यान् हरिचरणप्रणतान्नमस्करोमि ॥ २॥ सुगतिमभिलषामि वासुदेवादहमपि भागवते स्थितान्तरात्मा । मधुवधवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि कृष्णः ॥ ३॥ भगवति विमुखस्य नास्ति सिद्धिर्विषममृतं भवतीति नेदमस्ति । वर्षशतमपीह पच्यमानं व्रजति न काञ्चनतामयः कदाचित् ॥ ४॥ नहि शशिकलुषच्छविः कदाचिद्विरमति नो रवितामुपैति चन्द्रः । भगवति च हरावनन्यचेता भृशमलिनोऽपि विराजते मनुष्यः ॥ ५॥ महदपि सुविचार्य लोकतत्त्वं भगवदुपास्तिमृते न सिद्धिरस्ति । सुरगुरुसुदृढप्रसाददौ तौ हरिचरणौ स्मरतापवर्गहेतोः ॥ ६॥ शुभमिदमुपलभ्य मानुषत्वं सुकृतशतेन वृथेन्द्रियार्थहेतोः । रमयति कुरुते न मोक्षमार्गं दहयति चन्दनमाशु भस्महेतोः ॥ ७॥ मुकुलितकरकुड्मलैः सुरेन्द्रैः सततनमस्कृतपादपङ्कजो यः । अविहतगतये सनातनाय जगति जनिं हरते नमोऽग्रजाय ॥ ८॥ यमाष्टकमिदं पुण्यं पठते यः श‍ृणोति वा । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ९॥ इतीदमुक्तं यमवाक्यमुत्तमं मयाधुना ते हरिभक्तिवर्द्धनम् । पुनः प्रवक्ष्यामि पुरातनीं कथां भृगोस्तु पौत्रेण च या पुरा कृता ॥ १०॥ इति श्रीनरसिंहपुराणे यमाष्टकनाम नवमोऽध्यायः ॥ ९॥ Narasimhapurana adhyAya 9 https://archive.org/details/NarsimhaPuranGitapress