अक्षर आकार:

विस्मृतभेदाः सन्तो

Vismritabhedah Santo

विस्मृतभेदाः सन्तो

विस्मृतभेदाः सन्तो निर्मलभावापन्नाः एकीभावं हृदयारूढं सततं कुर्वन्तु भो भोः, सततं कुर्वन्तुऽ ॥ विस्मृत ॥ पूर्वज-मुनिजन-कविजन-वाञ्छा सर्वेषामैक्यं सुखिनस्सर्वे सन्त्विति गानं तेषां बहुहृद्यम् । भाषा-धन-मत-जाति-विभेदः हृदये मा भवतु दुःखित-दीन-जनानुन्नेतुं हस्ताः प्रसरन्तु भो भोः, हस्ताः प्रसरन्तुऽ ॥ विस्मृत ॥ १॥ गङ्गा-तुङ्गा-कावेरी-जलमस्माकं मत्वा कृतसङ्कल्पाः कार्यं कर्तुं आलस्यं हित्वा । सुवर्णपुष्पां पृथिवीमेतां क्रष्टुं आयान्तु प्रवहतु कामं स्वेदस्रोतः धैर्यं मा जहतु भो भोः, धैर्यं मा जहतुऽ ॥ विस्मृत ॥ २॥ घर्षण-लुण्ठन-वञ्चन-हननं प्रलयं संयातु स्नेहस्रोतः प्रवहतु भ्रातुर्भावो हृदि लसतु । अनिलः सलिलं अनलः सर्वं सर्वेषामेकं प्रवहति रक्तमभक्तं मातुः भेदो मा भवतु भो भोः, भेदो मा भवतुऽ ॥ विस्मृत ॥ ३॥ - जि. महाबलेश्वरभट्टः