अक्षर आकार:

विश्वमखिलमुद्धर्तुममी

Vishvamakhilamuddhartumami

विश्वमखिलमुद्धर्तुममी

विश्वमखिलमुद्धर्तुममी निर्मिता वयम् । मानवं समुद्धर्तुममी प्रेषिता वयम् । हरिणा निर्मिता वयम् ॥ सङ्कटाद्रिभिदुरं धैर्यं धार्यमनिशमिदमिह कार्यम् । मातरं प्रतिष्ठां नेतुं तनुभृतो वयम् । प्रभुणा प्रेषिता वयम् ॥ मातृभक्तिरेकं ध्येयं, तत्कृते शरीरं देयम् । क्षुद्रलालसापरिमुक्ताः सेवका वयम् । प्रभुणा प्रेषिता वयम् ॥ जानते भरतभुवि लोकाः, आत्मतत्त्वमिह गतशोकाः । इत्यवेत्य जगदुद्धरणे योजिता वयम् । प्रभुणा प्रेषिता वयम् ॥ ईश्वरः स्फुरति नः स्वान्ते अज्ञानान्धतमसस्यान्ते । तस्य कार्यमधुना कर्तुं सोद्यमा वयम् । प्रभुणा प्रेषिता वयम् ॥ निश्चितं यशः परिपूर्णं लप्स्यतेऽत्र जन्मनि तूर्णम् । ईशकार्यकरणे निरताः सन्ततं वयम् । प्रभुणा प्रेषिता वयम् ॥