अक्षर आकार:

विश्वभाषा संस्कृतं

VishvabhaSha Samskritam

विश्वभाषा संस्कृतं

सरलभाषा संस्कृतं सरसभाषा संस्कृतम् । सरससरलमनोज्ञमङ्गलदेवभाषा संस्कृतम् ॥ १॥ मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् । मृदुलमधुरमनोहरामृततुल्यभाषा संस्कृतम् ॥ २॥ देवभाषा संस्कृतं वेदभाषा संस्कृतम् । भेदभावविनाशकं खलु दिव्यभाषा संस्कृतम् ॥ ३॥ अमृतभाषा संस्कृतं अतुलभाषा संस्कृतम् । सुकृतिजनहृदि परिलसितशुभवरदभाषा संस्कृतम् ॥ ४॥ भुवनभाषा संस्कृतं भवनभाषा संस्कृतम् । भरतभुवि परिलसितकाव्यमनोज्ञभाषा संस्कृतम् ॥ ५॥ शस्त्रभाषा संस्कृतं शास्त्रभाषा संस्कृतम् । शस्त्रशास्त्रभृदार्षभारतराष्ट्रभाषा संस्कृतम् ॥ ६॥ धर्मभाषा संस्कृतं कर्मभाषा संस्कृतम् । धर्मकर्मप्रचोदकं खलु विश्वभाषा संस्कृतम् ॥ ७॥