अक्षर आकार:

वेदान्तपरत्रिवेणी

vedAntaparatriveNI

वेदान्तपरत्रिवेणी

इन्द्रियाणां जडानां च विषयाणां च तादृशाम् । वैरस्यं ज्ञानपूर्वं यद्विरक्तिः सा प्रकीर्तिता ॥ १॥ जडौघान्नश्वराद्दृश्याद्बुद्धिवृत्तिं निवर्त्य च । चैतन्यप्रवणा कार्या भक्तिः सा परिकीर्तिता ॥ २॥ सर्वान्तरोऽस्मि घनचित्प्रकाशात्मेति या मतिः । महावाक्यविचारोक्ता सात्मज्ञप्तिः प्रकीर्तिता ॥ ३॥ एता हि यमुनागङ्गासरस्वत्योऽत्र सङ्गताः । त्रिवेणी सैव तत्रैव स्नानाद्रागाद्यधक्षयः ॥ ४॥ गुणत्रिवेणीदानं धीस्त्रियः कुर्यात्पुमानिह । पातकेच्छोद्भवो नात्र पुनरन्यत्र तूद्भवः ॥ ५॥ इति श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचिता वेदान्तत्रिवेणी सम्पूर्णा ॥