अक्षर आकार:

वयं हिन्दुसञ्जाताः सर्वे

Vayam Hindusanjatah Sarve

वयं हिन्दुसञ्जाताः सर्वे

वयं हिन्दुसञ्जाताः सर्वे, अस्माकं पुण्यं पावनराष्ट्रं, भावय श्रेष्ठम् ॥ जननमपि दुर्लभमत्र दैवमपि सिद्ध्यति यत्र । कर्मफलापेक्षाहीनाः धर्मे निष्ठाः कर्ममुखेन ॥ १॥ अस्मासु नास्ति च भेदः अस्मासु नास्ति च वादः । भिन्नमतं एकीकृत्य सङ्गच्छेमहि संवदेमहि ॥ २॥ मम जननी भारतमाता पुत्रोऽहं सेवाकर्ता । एवमेव कृत्वा भावं सत्यं वदाम चराम धर्मम् ॥ ३॥ - श्री नारायणभट्टः