अक्षर आकार:

वयं बालका भारतभक्ताः

vayaM bAlakA bhAratabhaktAH

वयं बालका भारतभक्ताः

वयं बालका भारतभक्ताः वयं बालिका भारतभक्ताः । वयं हि सर्वे भारतभक्ताः पृथ्वीं स्वर्गं जेतु शक्ताः ॥ वयम्॥ वयं सुधीराः वयं सूवीराः हृष्टमानसाः पुष्टशरीराः । भूरि पठामो भूरि लिखामो भवितास्मो जनहिते नियुक्ताः ॥ वयम्॥ जाति-धर्म-मत-भेदं त्यक्त्वा भारतवर्षं पूज्यं मत्वा । भगवद्भावं हृदये धृत्वा भारतसेवायामनुरक्ताः ॥ वयम्॥ - डाॅ नरेन्द्रः