अक्षर आकार:

वसुधैव कुटुम्बकम्

Vasudhaiva Kutumbakam

वसुधैव कुटुम्बकम्

(गीतिका) (सग्विणी वृत्तम्) विश्ववन्धुत्व-मन्त्रं सदा गीयतां विश्व कल्याण-भावं सदा धीयताम् । लोक-कल्याण-भावामृतं पीयतां लोक-शोकाऽऽधि-तापावलिं क्षीयताम् ॥ विश्व०॥ स्वार्थमूल मतं दीन-सन्तापनं शोक-मोहादि-मूलं मत नाशनम् । स्वार्थ एवास्ति लोकस्य संशोषक क्लेश हेतुः सदा शान्ति-संरोधक ॥ विश्व०॥ द्वेष-बुद्धिः सदा ताप-सञ्चारिणी स्वार्थबुद्धिः सदा शान्ति-संहारिणी । भेद-बुद्धिः सदा स्नेह-संहारिणी लोभ-बुद्धिः सदा दुःख-संसारिणी ॥ विश्व०॥ विश्वशान्तेः समस्याऽस्ति घोराऽघुना, राष्टसघं समाधातुकामं सदा । विश्वशान्तिं विना नास्ति लोके सुखं नैव दु खाऽऽधि व्याधिश्च संहारणम् ॥ विश्व०॥ रागद्वेषावविश्वास-भावोदयो देश-संशोषणं राष्ट्र संहारणम् । स्वाथसिद्धयैः परस्यापि संशोषणं विश्वशान्तेस्तु संस्थापने रोधकम् ॥ विश्व०॥ विश्वबन्धुत्व-भावोदयं सौख्यदं, विश्व-कल्याण भावं सदा मोददम् । विश्वबन्धुत्व-भावेन शान्ते सुधा भ्रातृभावोदयं स्नेह-भावोद्गम् ॥ विश्व०॥ प्रेममूला सदा सम्पदं सौख्यदा द्वेषमूला सदैवाऽऽपदो दुःखदा । द्वेषनाशो नृणां सौख्य-सञ्चारकं, शान्ति-संस्थापको राष्ट्र-क्षेमावहम् ॥ विश्व०॥ वेद-शास्त्रेषु बन्धुत्व भावोद्गमः सर्वधर्मेषु बन्धुत्व-भावाऽऽश्रयः । सार्वभौमा यमा शान्ति-संस्थापकाः स्नेहदा सौख्यदा भ्रातृभावोदया ॥ विश्व०॥ यत्र जागर्ति बन्धुत्व-भावावलि स्नेह-भावोदयो दीन-संरक्षणम् । ताप-नाशं क्षुधादेश्च संवारणं तत्र शान्तिव्यवस्थोन्नतिं सम्पदः ॥ विश्व०॥ विश्वबन्धुत्व-मन्त्रं सदा श्रेयसे विश्वबन्धुत्व शक्तिः सदा प्रेयसे । विश्वशान्त्यै समद्ध्यै सदा सम्पदे विश्वबन्धुत्व-भावोद्गतिः सम्मुदे ॥ विश्व०॥