अक्षर आकार:

श्रीवरवरमुनिविषयमुक्तकम्

Shri Varavaramunivishayamuktakam

श्रीवरवरमुनिविषयमुक्तकम्

श्रीरस्तु । श्रीमते हयग्रीवायनमः । श्रीमते रामानुजाय नमः ॥ प्रपद्ये पदपद्मानि परमप्रेमसम्पदाम् । सौम्यजामातृयोगीन्द्रचरणैकजुषां सताम् ॥ १॥ सम्पत्स्वरूपानुगुणैव यस्मिन् सर्वोत्तरो यत्र मनःप्रसादः । सद्भिस्समं देव तमेव देशं प्राप्तुं प्रपद्ये भवदङ्घ्रिमूलम् ॥ २॥ यन्मूलमाश्वयुजमास्यवतारमूलं कान्तोपयन्तृयमिनः करुणैकसिन्धोः । आसीदसत्सु गणितस्य ममापि सत्तामृलं तदेव जगदभ्युदयैकमूलम् ॥ ३॥ श्रीमद्रङ्गं जयतु परमं धाम तेजोनिधानं भूमा तस्मिन् भवतु कुशली कोऽपि भूमासहायः । दिव्यं तस्मै दिशतु विभवं देशिको देशिकानां काले कालेश्वरवरमुनिः कल्पयन्मङ्गलानि ॥ नचेद्रामानुजेत्येषा चतुरा चतुरक्षरी । कामवस्थां प्रपद्यन्ते जन्तवो हन्त मादृशाः ॥ ५॥ पुण्याम्भोजविकासाय पापध्वान्तक्षयाय च । श्रीमानाविरमृद्भूमौ रामानुजदिवाकरः ॥ ६॥ तृणीकृतविरिञ्चादिनिरङ्कुशविभूतयः । रामानुजपदाम्भोजसमाश्रयणशालिनः ॥ ७॥ इति श्रीवरवरमुनिविषयमुक्तकं सम्पूर्णम् ।