अक्षर आकार:

वन्दे त्वां भूदेवीमार्य मातरम्

Vande Tvam Bhudevim Arya Mataram

वन्दे त्वां भूदेवीमार्य मातरम्

वन्दे त्वां भूदेवीमार्य मातरं जयतु जयतु पदयुगलं ते निरन्तरं ॥ ध्रुवम्॥ शुभ्र-शरच्चन्द्र-युक्त-चारुयामिनीं विकसित-नव-कुसुम-मृदुल-दामशोभिनीं मन्दस्मितयुक्त-वदन-मधुरभाशिणीं सुजलां सुफलां सरलां शिववरदां चिरसुखदां मुकुलरदामार्य मातरम् ॥ १॥ दशकत्रयकोटिजन-कण्ठनादिनीं अमितभुजां धृतसदसीं तनयतारिणीम् । ( variation सह-पृतनाममित-भुजाम्-तनयतारिणीं अमितामित-कोटि-कण्ठ-जयनिनादिनीं) हिमनगजां स्वाभिमान-बुद्धिदायिनीं कमलाममलामतुलां रिपु-हरिणीं बलकरणीं धृतनलिनीमार्य मातरम् ॥ २॥ variation मद-दमनीम् धर्मस्त्वं शर्म त्वं त्वं यशोबलं शक्तिस्त्वं भक्तिस्त्वं कर्म चाखिलं प्रतिसदनं प्रतिमा ते त्वं महाबलं धरणीं भरणीं जननीं कविप्रतिभां नतसुलभां variation मतिसुलभां जगदम्बां राष्ट्रमातरम् ॥ ३॥ दादरावृत्तिः तालम्