अक्षर आकार:

वन्देहं भारताम्बां

Vandeham Bharatambam

वन्देहं भारताम्बां

वन्देहं भारताम्बां जन्मदायिनीम् । वन्देहं मातृभूमिं मोक्षदायिनीम् ॥ रत्नजलनिधिसंयुतां, प्राज्ञऋषिगणशोभिताम् । त्यागिमुनिवरभूषितां, चारुपर्वतराजिताम् ॥ पूतचरितैः शजितां, कविजनैः सङ्कीर्तिताम् । ज्ञानवृद्धैः चर्चिताम्, भावभक्तिसमर्चिताम् ॥ वीरसुतसन्तोषितां, महितचरितैः संसेविताम् । भक्तवृन्दैर्वन्दिताम्, साधुसद्भिर्भाविताम् ॥ वन्देहं भारताम्बां जन्मदायिनीम् ॥ - लक्ष्मीनारायणः