अक्षर आकार:

वन्दे भारतवर्षम्

Vande Bharatavarsham

वन्दे भारतवर्षम्

गायति निरतं निखिलो लोकः प्रीत्या यस्योत्कर्षम् । वन्दे० प्रालेयाचल-मुकुट - मण्डितं कश्मीराञ्चित - भालम्, निर्जरतटिनी-मिहिरकन्यका-विलसितचलगलमालम्, क्षीणकल्मषं विन्ध्यमध्यमं सन्ध्येऽलङ्करुतोऽलम्, रणरणकैर्यच्चरणमर्णवः क्षालयते सुविशालम्, लोकालोक - प्रहरि - राजितं वैरिभ्यो दुर्द्धर्षम् । वन्दे० आदिसभ्यतास्रोतः सततं सत्याऽहिंसा - युक्तं, मानवता - निर्मातृ निर्मलं सामगान - संसक्तम्, भाषा - वर्ण - विचाराणामपि यत्रास्ते वैचित्र्यं, समता-समरसता - विवेकिता - ख्यातं यत्पावित्र्यम्, निन्दं निरामयं निर्भयं विरलं वीतामर्षम् । वन्दे० नन्दनवननवसुमैः सुरभितं सस्यं यस्य यशस्यं, विहगानां कलरुतं वसन्ते मदयति मनः प्रशस्यम्, पूर्वपश्चिमालिङ्गितमुत्तरदक्षिणदेश - नमस्यं, दशसु दिक्षु भास्वरतररूपं वन्द्यं विश्ववयस्यम्, स्वर्णसूत्रवद् ग्रथितं भूमौ वितरतु जगते हर्षम् । वन्दे० वन्दे भारतवर्षम् । -श्री शास्त्रिरुद्रदेवत्रिपाठिनाम, ``मालवमयूर''