अक्षर आकार:

वन्दे भारतमातरम्

Vande Bharatamataram

वन्दे भारतमातरम्

वन्दे भारतमातरं वद, भारत ! वन्दे मातरं वन्दे मातरं, वन्दे मातरं, वन्दे मातरम् ॥ जन्मभूरियं वीरवराणां त्यागधनानां धीराणां मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम् । जितकोपानां कृतकृत्यानां वित्तं तृणवद् दृष्टवतां मातृसेवनादात्मजीवने सार्थकतामानीतवताम् ॥ ग्रामे ग्रामे कर्मदेशिकास्तत्त्ववेदिनो धर्मरताः । अर्थसञ्चयस्त्यागहेतुको धर्मसम्मतः काम इह । नश्वरबुद्धिः* क्षणपरिवर्तिनि काये, आत्मन्यादरधीः जातो यत्र हि स्वस्य जन्मना धन्यं मन्यत आत्मानम् ॥ मातस्त्वत्तो वित्तं चित्तं स्वत्वं प्रतिभा देहबलं नाहं कर्ता, कारयसि त्वं, निःस्पृहता मम कर्मफले । अर्पितमेतज्जीवनपुष्पं मातस्तव शुभपादपले नान्यो मन्त्रो नान्यचिन्तनं नान्यद्देशहिताद्धि ॠते ॥ - जनार्दन हेगडे