अक्षर आकार:

वाणीवन्दना

Vani Vandana

वाणीवन्दना

वीणानिनादिनि देवि मातः शारदे शुभदे शुभे सौख्यप्रदायिनि बुद्धिदात्रि स्नेहदे सुखदे प्रभे । हे ज्ञानदे वरदे प्रिये विद्याविभाविभुवल्लभे साहित्यवारिधिमञ्जने मतिदे शिवे मतिदे हि मे ॥ १॥ अज्ञाननाशिनि भव्यभाषाभाषिणि प्रबलेऽबले विद्याविलासिनि शुभ्रवस्त्रो शास्त्रासारसुसारिणि । कर्त्तव्यकर्मविभाविनि ध्रुवधर्मकर्मविबोधिनि मातः सरस्वति पाहि मां शरणगतं शरणप्रदे ॥ २॥ धर्मार्थचिन्तनसंरते कतिकलाकलितेश्वरि सङ्गीतगीतिसुगायिनि प्रतिभाप्रदानपरायणे । हंसासने सुविराजिते सकलाश्रये जनमोददे मातः सरस्वति पाहि मां शरणागतं शरणप्रदे ॥ ३॥ संसारबन्धनमुक्तिदे युक्तिप्रदे भुक्तिप्रदे हे हे दयामयि शक्तिदे भक्तप्रिये भक्तिप्रदे । मायाममत्वविनाशिनि प्रज्ञापरे सन्मार्गदे मोहान्धकारनिमज्जितं मां पाहि हे सद्बुद्धिदे ॥ ४॥