अक्षर आकार:

उपशान्त्यष्टकम्

Upashantyashtakam

उपशान्त्यष्टकम्

अनुपासादितसुगुरोरविचारितवेदशीर्षतत्त्वस्य । कथमुपशान्तिः स्याद्भो सततं सत्सङ्गरहितस्य ॥ १॥ अन्नमयादिषु पञ्चस्वहम्मतिं यावदेष न जहाति । तावत्कथमुपशान्तेः पात्रं प्रभवेच्छुकादितुल्योऽपि ॥ २॥ चरतामक्षाश्वानां रूपप्रमुखेषु विषमविषयेषु । दोषविमर्शकशाहतिमकुर्वतः स्यात्कथं शान्तिः ॥ तत्त्वावबोधमणिवरभूषणहीनं यदीयहृदयं स्यात् । कथमुपशान्तिर्वृणुयात्तं पुरुषं सादरं लोके ॥ ४॥ नक्तन्दिवं पराचि प्रवणस्वान्तस्य देहसक्तधियः । कथमुपशान्तिः पुंसः प्रभवेदपि कल्पकोटिशतैः ॥ ५॥ योगाख्यगारुडमनुप्रवरेण कृतो न येन रदभङ्गः । तृष्णाकृष्णभुजङ्ग्याः कथमुपशान्तिर्भवेत्तस्य ॥ ६॥ सुतगेहमित्रतरुणीप्रभृतिषु यस्यास्ति दृढतरः स्नेहः । स कथमुपशान्तिविषयामपि गाथां गातुमीश्वरः स्याद्भो ॥ ७॥ सन्त्यजति नैव कर्माण्यखिलान्यविगीतमार्गेण । सशिखं च यज्ञसूत्रं यः स कथं शान्तिभाजनं प्रभवेत् ॥ ८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं उपशान्त्यष्टकं सम्पूर्णम् ।