अक्षर आकार:

उपदेशचतुर्विंशतिः

Upadeshachaturvimshatih

उपदेशचतुर्विंशतिः

करणं सर्वसिद्धीनां चित्तानुसरणं गुरोः । इति निश्चित्य सर्वेषु कार्येषु प्रविशार्भक ॥ १॥ सुतेषु करुणा यद्वत्प्रसवित्र्यास्ततोऽपि च । प्रभूता करुणा शिष्ये सद्गुरोरिति निश्चिनु ॥ २॥ मातापितरावस्मिञ्जन्मन्येवार्भकस्य सुखवृद्धिम् । इच्छत आगामिजनुःसौख्यं स्मरतो न जात्वपि हि ॥ ३॥ शिष्यस्य सद्गुरुः खलु सञ्चितमुखपापसङ्गराहित्यम् । किञ्चावृत्तिविहीनं ब्रह्मपदं काङ्क्षते कृपया ॥ ४॥ सौख्यं च तदपि संश‍ृणु यत्पितराविच्छतस्तनूजस्य । भार्यां बिभर्तु तनयान्प्राप्नोतु तनोतु सतततद्रक्षाम् ॥ ५॥ आर्जयतु च धनमनिशं यया कयाचित्प्रणाल्यायम् । अपि नौ जीर्णवयस्कौ पातु च मोदेन सर्वविषयेषु ॥ ६॥ राज्ञां वा धनिकानां मनोऽनुवृत्तिं विधाय तनुजातः । अभ्यधिकं तत्तोषं प्राप्नोतु च तेन बहुलधनम् ॥ ७॥ इति बहुलदुःखमेव हि सौख्याभासं तनूजस्य । पितरौ लोके रात्रिन्दिवमेव चिन्तयन्तौ स्तः ॥ ८॥ मा सज्जतु मच्छिष्यो धनदारास्निग्धपुत्रगेहेषु । तद्रक्षणार्थमर्थग्रहणे यत्नं न कञ्चिदपि कुर्यात् ॥ ९॥ मा कुरुताद्दशनानां विवृतिं धनिकाग्रतः कदाचिदपि । मा भूपतोषणार्थं स्तुतिमपि वितनोतु दीनवाक्सरणिम् ॥ १०॥ मांसासृङ्मलराशौ देहेऽहन्ता कदापि मा भवतु । नश्वरतमेषु जात्वपि भोगेष्वास्थालवोऽपि मा भूयात् ॥ ११॥ मा सार्वभौमपदवीं वाञ्छतु मा देवराजतां क्वापि । शमदान्त्युपरतिमुखषट्सम्पदमाप्नोतु सुस्थिरां शीघ्रम् ॥ १२॥ नित्यानित्यविवेकं मोक्षप्रासादगमननिःश्रेणिम् । दृढतरमुमुक्षुतामप्याश्रयतात्सत्वरं सुखेनैव ॥ १३॥ सुविधाय सशिखवपनं छित्वा कर्मार्थमादृतं सूत्रम् । स्वीकृतपारमहस्यो विहर सुखेनेति सद्गुरुर्ब्रूते ॥ १४॥ यदि यौ कौचित्पितराविच्छत आत्मोद्भवस्य परमपदम् । तौ तर्हि सद्गुरुस्थलकृताभिषेकौ विजानीहि ॥ १५॥ पित्रोश्च सद्गुरोरप्यन्तरमेवं विमृश्य वत्स चिरम् । नित्यसुखेच्छा चेत्तव तरसा व्रज सद्गुरुं शरणम् ॥ १६॥ सद्गरुरिह सम्प्राप्तं शिष्यं तत्त्वं यथावदुपदिश्य । दयया नैसर्गिक्या नित्यसुखं प्रापयेत्तरसा ॥ १७॥ इति यतिवचःप्रबुद्धः शिशुरूहापोहदक्षमतिरेवम् । पप्रच्छ मुक्तिकामस्त्यक्तैहिकपारलौकिकेच्छः सन् ॥ १८॥ शिष्य उवाच-- सद्गुरुसेवनमेव हि नित्यसुखावाप्तिसाधनं ब्रूषे । सद्गुरुरीदृश इति मे यतिवर तल्लक्षणं ब्रूहि ॥ १९॥ गुरुरुवाच- निर्हेतुककरुणाजनिभूमिः सन्त्यक्तविषयेच्छः । लुप्तस्वपरत्वमतिः स्मितलसदास्याम्बुजः सततम् ॥ २०॥ शीलितनिगमान्तततिः पालितमैत्रीप्रमुख्यगुणजालः । तत्त्वोपदेशनिरतः सत्वरमेवाङ्घ्रिनम्रलोकानाम् ॥ २१॥ सक्रोधानक्रोधान् रागाढ्यान् रागनिर्मुक्तान् । कुर्वाणो विषयेष्वतिवैरस्यं बोधयंस्तरसा ॥ २२॥ लोकार्थमाश्रमोचितचर्यानिरतः समाधिरहितेषु । कालेषु किञ्च कृष्णद्वैपायनसूत्रजालबोधयिता ॥ हठराजमुख्ययागानधिकारिविभेदतः प्रणम्रेभ्यः । प्रतिपादयन्नजस्रं हर्षप्राग्भारतुन्दिलस्वान्तः ॥ २४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता उपदेशचतुर्विंशतिः सम्पूर्णा ।