अक्षर आकार:

त्वां नमामि शिवनृपाल

TvAm Namami Shivanripala

त्वां नमामि शिवनृपाल

त्वां नमामि शिवनृपाल सन्ततं स्मरामि ते । विशुद्ध शीलमखिल विश्व वन्द्य भूपते ॥ त्वं जनपद संस्कर्ता त्वं जनगणधीदाता । गोद्विजपरिपालकशिवसाधूनां त्वं त्राता । त्वामभिजनमार्तानां बान्धवमतिदीनानाम् । श्रीशिवनृपवर्य भजति मे हृदयम् । राष्ट्रमिदं दुष्टाभिहतं क्षीणबलं येनोत्थापितमखिलम् । तं प्रबलम् वीरप्रवरम् भूपवरं चिन्तये । हे जगदभिराम दुष्टखलविराम । पूरित शुभकाम पुण्यचरितधाम । var पूजित देवपरमवीर शत्रुशमनधीर । विश्वहितं ते चरितं नीतिनिधानम् ॥