अक्षर आकार:

तीर्थस्तुतिः

Tirthastutih

तीर्थस्तुतिः

गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ १॥ कुरुक्षेत्र -गया -गङ्गा -प्रभास -पुष्कराणि च । एतानि पुण्यतीर्थानि स्नानकाले भवन्त्विह ॥ २॥ त्वं राजा सर्वतीर्थानां त्वमेव जगतः पिता । याचितं देहि मे तीर्थं तीर्थराज! नमोऽस्तु ते ॥ ३॥ पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा । आगच्छन्तु पवित्राणि स्नानकाले सदा मम ॥ ४॥ विष्णु -पादाव्ज-सम्भूते गङ्गे त्रिपथगामिनि । धर्मद्रवेति विख्याते पापं मे हर जाह्नवि! ॥ ५॥ गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णलोकं स गच्छति ॥ ६॥ इति तीर्थस्तुतिः समाप्ता ।