अक्षर आकार:

स्वप्रभुविज्ञप्तिः

svaprabhuvijnaptiH

स्वप्रभुविज्ञप्तिः

कृपानाथ कृपाकाले किमित्यस्मानुपेक्षसे । पदलग्नानार्तिमग्नान् दुष्टभग्नान् विशेषतः ॥ १॥ त्वदुपेक्षावशादेव कालकर्मादयोऽखिलाः । विदित्वा निर्बलानस्मान् पीडयन्ति क्षणे क्षणे ॥ २॥ येषां विराजते मूर्ध्नि पतिर्युष्मद्विधः सदा । भवन्ति तेऽपि चेद्दीना हीनता महती प्रभो ॥ ३॥ मा विचारय चित्तेऽस्मद्दोषान् दीनदयानिधे । सहजो दीनदोषस्तु निवर्त्यो भवतैव हि ॥ ४॥ न साधनैस्त्वदीयाः स्मः किं त्वनुग्रहतस्तव । साधनं वा फलं वापि केवलाचार्यसंश्रयः ॥ ५॥ गृहदासेषु नैवास्ति गुणदोषविचारणम् । प्रभूणामुचितं कर्तुं यतस्तेषां मतिः प्रभुः ॥ ६॥ कुसेवका भवन्त्येव न हि स्वामी तथाविधः । अतो विधेयमखिलं स्वामित्वमवलोकय ॥ ७॥ कं प्रार्थयेयुः कृपणाः पतिं हित्वाखिलेश्वरम् । दासाः स्वदुःखसन्तप्तावनन्यगतयो यतः ॥ ८॥ यद्यप्यनुचिता कर्तुं प्रार्थना सर्वकर्तरि । स्वतस्तथाऽपि कार्पण्यं दर्शयामो निजं हरे ॥ ९॥ आचार्यं शरणं यातान् सदारातान् स्वतस्त्वया । तद्वंशजातानधुना मोपेक्षाविषयान् कुरु ॥ १०॥ इति श्रीहरिदासविरचिता स्वप्रभुविज्ञप्तिः समाप्ता ।