अक्षर आकार:

स्वदेशानुराग

Svadeshanuraga

स्वदेशानुराग

(उपजातिवृत्तम्) न यत्र देशोद्धृति-कामनाऽऽस्ते न मातृभूमेर्हितचिन्तनं च । न राष्ट्ररक्षा-बलिदान-भावं श्मशान-तुल्यं नरजीवनं तत् ॥ देशस्य रक्षा जनता-समृद्धिः परोपकाराश्रयणेन वृत्तिः । परार्थ चिन्ता पतितानुरागो येष्वस्ति तेषां जनेरेव धन्याः ॥ विनश्वरं मानव-वर्ष्म नित्यं विनश्वरं भौतिकमीश्वरत्वम् । अनश्वरं शाश्वत-कीर्ति दायि स्वराष्ट्र-हेतोर्निज-देह-दानम् ॥ यस्मिन् स्वदेशस्य न गौरवं स्याद् न चाभिमानं निज-देश-कीर्तेः । नराधमोऽयं नृ पशुर्मतो मे स्वदेशभक्त्या रहितो हितोऽपि ॥ देशोऽस्तु लक्ष्यं परमं त्वभीष्टं देशानुरागं परमोऽनुरागः । स्याज्जीवनं वा मरणं च सद्यः तत् सर्वमेवास्तु स्वदेश-हेतोः ॥ राष्ट्रस्य हेतोर्बलिदानभावो राष्ट्रस्य कल्याणविधौ प्रयत्नः । रात्रिन्दिवः राष्ट्र-समृद्धि चिन्ता स्याज्जीवनस्य प्रथमोऽभिलाषः ॥ यस्मिन् सुधाऽऽसारं-रसः प्रसारा स्वदेश-भक्तिस्तनुते स्वजालम् । कर्तव्यमास्थाय तनुत्यजो ये ते एव धन्याः कृतकृत्यवर्याः ॥ सेवाधर्मो यत्र न देशभक्तिः जागर्ति विद्युज्ज्वलनोपमानाः । सा स्नेहदात्री सुख-शान्ति-दात्री धात्री गुणानां यशसां श्रियां च ॥ स्व-जीवनोत्सर्ग-व्रता अजस्त्रं प्राणान् जहुर्ये निज-राष्ट्रहेतो । शान्तिश्च क्रान्तिश्च व्रतं चरन्तः ते एव देवाः अमरा सुराश्च ॥ स्व मातृ-हेतोर्निज राष्ट्र हेतो प्राणार्पण्णं स्याज्जनता हिताय । समपर्णं लोकहीताय सर्वं स्याच्चेतमो मे परमोऽभिलाष ॥