अक्षर आकार:

स्वागतं पयोद ते

Svagatam Payoda Te

स्वागतं पयोद ते

गर्जनेन वर्षणेन ते धरा प्रमोदते । स्वागतं पयोद ते स्वागतं पयोद ते ॥ धृ॥ हे सुकालवारिमुक्त्वया धरा सुतर्पिता । हे पयोद चातकास्त्वया भृशं सुहर्षिता । केकिनां गणस्त्वया मुदा वनेषु नर्तते ॥ १॥ वीतवर्षशोषकृत्यदाधुना त्वमागतः । भूमनः तथापराशिरत्यतं कृतं गतः । मानसे मुदो न मान्ति दर्शनाजनस्य ते ॥ २॥ नूतनाः सुपादपाः प्रमोदिता सुवल्लरी । उच्छलत्सुविभ्रमा तरङ्गितास्ति निर्झरी । पक्षिणश्च नीडनिर्मितं द्रुतं प्रकुर्वते ॥ ३॥ क्षेत्रकर्षणेन बीजवापकर्मणा धृतम् । कार्षकैः सभार्यकैः स्वधर्मपालनं कृतम् । श्रावणेऽथ भाद्रकेऽपि ते दयां भजन्तु ते ॥ ४॥ दोलया मनोविनोदमाचरन्ति बालिकाः । तीव्रग्रामिणो गृहं प्रयन्ति पश्य पान्थकाः । उत्कया बलाकया मनोरथः स्वपूर्यते ॥ ५॥ मोदमेतु मेदिनी प्रमोदमेतु मानवः । नो कदापि बान्धतां भुवं कुशोषदानवः । अन्नमस्तु दुग्धमस्तु विद्युदस्तु केन ते ॥ ६॥