अक्षर आकार:

स्वाधीनता स्वातन्त्र्यम्

Svadhinata Svatantryam

स्वाधीनता स्वातन्त्र्यम्

(गीतिका) (भुजङ्गप्रयातम्) स्वतन्त्राप्तिरेषा सदा सौख्य-दात्री भयानां प्रहर्त्री गुणानां प्रदात्री । त्वमेवासि लोके सदा मानदात्री सदा कीर्तिदात्री सदा मोददात्री ॥ स्व०॥ न त्वत्तः परं मानदं लोकमध्ये न त्वत्तः परं सौख्यदं किञ्चिदस्ति । त्वमेवासि लोकस्य चैतन्य दात्री सदा प्रेरणाभू सदा शक्ति-स्रोतः ॥ स्व०॥ विना त्वां जनाः शक्ति-कीर्त्यादि हीना सुबुद्धविहीना सदा मान हीना । नराः पामरास्ते क्षुधा दैन्य-त्रस्ता, अविद्याऽन्ध-ग्रस्ता सदा शोक ध्वस्ता ॥ स्व०॥ विना त्वां नृणां जीवनं मोघमेव विना त्वां गतिः सर्वदा दुःखदैव । विना त्वां शिरस्थः सदा मृत्युरेव विना त्वां विकासो न हर्षाप्तिरेव ॥ स्व०॥ न यत्रास्ति ते दीधिति सौख्यमूला न यत्रास्ति ते श्री सदा कीर्तिशीला । न राष्ट्रं न देशं प्रदेशो विशेषो विना त्वाश्रितं कीर्तिमिष्टा श्रिया वा ॥ स्व०॥ त्वमेवासि सौख्यस्य मूलं समन्तात् त्वमेवासि कीर्त्यादिमूलं पुरस्तात् । त्वमेवासि मानस्य शक्तेश्च हेतुः त्वमेवासि शस्त्रं त्वमेवासि हेति ॥ स्य०॥ त्वदीये पदाब्जे मुदा देशभक्ताः । बलिं दत्तवन्तौ मुदं प्राप्तवन्तः । त्वदर्चापरा ये नरा मातृ भक्ता सदा स्यास्नु तेषां यशो राजतेऽत्र ॥ स्व०॥ त्वमेवासि शक्तिः, त्वमेवानुरक्ति त्वमेवासि सिद्धिः, त्वमेवासि, ऋद्धिः । त्वमेवासि मन्त्रः, त्वमेवासि तन्त्रः, त्वमेवासि शान्तिः, त्वमेवासि क्रान्तिः ॥ स्व०॥ त्वमेवासि दुर्गा, त्वमेवासि लक्ष्म्या, अधृष्या त्वमेवामसि दुर्धषरूपा । सदा स्नेह-स्रोतः, सदा शक्तिस्रोतः त्वदीया कृपा याचते सर्वलोक ॥ स्व०॥ सदा भारते ते कृपा सन्तता स्यात्, त्वदचर्चापरा भारतीयाः भवेयुः । विहाय स्वयं स्वार्थजातं जघन्य मुदा जीयनं तेऽर्पयेयुः पदाब्जे ॥ स्य०॥