अक्षर आकार:

सुरससुबोधा विश्वमनोज्ञा

Surasasubodha Vishvamanojna

सुरससुबोधा विश्वमनोज्ञा

सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया । अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना ॥१॥ कविकोकिल-वाल्मीकि-विरचिता रामायणरमणीयकथा । अतीव-सरला मधुरमञ्जुला नैव क्लिष्टा न च कठिना ॥२॥ व्यासविरचिता गणेशलिखिता महाभारते पुण्यकथा । कौरव-पाण्डव-सङ्गरमथिता नैव क्लिष्टा न च कठिना ॥३॥ कुरुक्षेत्र-समराङ्गण-गीता विश्ववन्दिता भगवद्गीता । अमृतमधुरा कर्मदीपिका नैव क्लिष्टा न च कठिना ॥४॥ कविकुलगुरु-नव-रसोन्मेषजा ऋतु-रघु-कुमार-कविता । विक्रम-शाकुन्तल-मालविका नैव क्लिष्टा न च कठिना ॥५॥ - पं. वसन्त गाडगीलः