अक्षर आकार:

स्मर चिरं हे भारतीय !

Smara Chiram He Bharatiya !

स्मर चिरं हे भारतीय !

स्मर चिरं हे भारतीय ! तव पुरातन-वीरचरितम् । धर धियं हृदि मनसि धैर्यं, कुरु समर्पणमात्मबुद्ध्या ॥ कलय हृदये पूर्वजानां त्यागपूरित-ध्येयनिष्ठाम् । प्रकुरु सकले जीवनेऽस्मिन् ज्ञानकारकतपः श्रेष्ठम् । अनुसरामो ध्येयमार्गं देशसेवनधर्मजुष्टम् ॥ किमुत तव हृदि संशयांशो भव्यभारतत्यागचरिते ? किं वृथा नरवीरकेशव- तीर्थमाधवत्यागचरितम् ? सर्जयामो नाकतुल्यं धर्मशासित-भारतम् ॥ दीयतां ते त्यागसुरभित- जीवनं ननु कार्यसिद्ध्यै । कारयामो विश्वमखिलं भारतत्व-सुगन्धपूर्णम् । साधयामो देववाणीं दिग्दिगन्त-प्रसारिणीम् ॥ - पं. नन्दकुमारः