अक्षर आकार:

श्रीशुद्धाद्वैतब्रह्मविद्याधिगमप्रकारमीमांसा

Shri Shuddhadvaitabrahmavidyadhigamaprakaramimamsa

श्रीशुद्धाद्वैतब्रह्मविद्याधिगमप्रकारमीमांसा

परहंसं चिन्त्यमानं करचरणाद्यङ्गरहितमपि रम्यम् । सञ्चित्सुखस्वरूपं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १॥ तत्र परहंसो द्विविधः, विद्वद्विविदिषुभेदात् । तल्लक्षणं तु श्रीमद्विद्यारण्यविरचितजीवन्मुक्तिविवेके स्पष्टमुपलभ्यते । तत्र विविदिषोर्विद्याग्रहणप्रकारः कथ्यते । तथा हि-नित्यानित्यवस्तुविवेकादिसाधनचतुष्टयसम्पन्नः ब्रह्मनिष्ठं सद्गुरं प्रपद्य प्रार्थनापूर्वकं श्रवणं कुर्यात् । प्रार्थनाप्रकारस्तु श्रीमच्छङ्करभगवत्पादाचार्यकृतविवेकचूडामणावनुसन्धेयः । तथा च श्रुतिः-- ``परीक्ष्य लोकान् कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्'' इति । अत्र ब्रह्मनिष्ठपदेन संन्यास्येव विवक्षितो नेतरः, इतरेषां आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया इत्युक्तरीत्या सार्वदिकविचारादिरूपब्रह्मनिष्ठाया असम्भवात् । अत एव श्रीमच्छङ्करभगवत्पादैः मुण्डकोपनिषद्विवरणे, ``ब्रह्मनिष्ठं हित्वा सर्वाणि कर्माणि केवले अद्वये ब्रह्मणि निष्ठा यस्य सोऽयं ब्रह्मनिष्ठः'' इति, ``न हि कर्मिणो ब्रह्मनिष्ठता सम्भवति, कर्मात्मज्ञानयोर्विरोधात्'' इति चाभ्यधायि । न च संन्यासिनोऽपि ``न व्याख्यानपरो भवेत्'' इत्याद्यध्यापननिषेधश्रवणाल्लोके सद्गरुर्दत्तजलाञ्जलिः स्यादिति वाच्यम्; सत्कारमानपूजाभिक्षाद्युद्देश्यकाध्यापनपरत्वात्तादृशनिषेधस्य । अत एव मनुः ``नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित्'' इति भिक्षोद्देश्यकानुशासनादीन्येव निषेधति । अत एव, ``तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥'' ``मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥'' इत्यादिवाक्यानामवैयर्थ्यम् । अत एव च कलौ लुप्तयतिधर्मरक्षणबद्धकङ्कणश्रीमच्छङ्करभगवत्पादान् प्रतिमोहसन्तमसवासरनाथांस्तत्र तत्र विनिवेश्य विनेयान् । पालनाय परतत्त्वसरण्या मामुपैष्यसि ततः कृतकृत्यः ॥ इति विश्वेश्वराज्ञापि नानर्थकपदभाग्भवति ॥ ननु, संन्यासिविद्यागुरोरलाभे का गतिरिति चेत्, सर्वमतसिद्धसंन्यासिगुर्वेकलभ्यत्वकस्य महावाक्योपदेशस्य या गतिः सैवेत्यवेहि । यदि महावाक्योपदेष्टापि गृहस्थः स्यात्तर्हि तुरीयाश्रमो वन्ध्यासूनुतां विन्देत् । न च यतिधर्मप्रबोधवाक्याद्गृहस्थस्यापि गुरुत्वं सम्भवतीति वाच्यम्; पूर्वोक्तमुण्डकोपनिषद्विवरणविरोधादश्रद्धेयत्वात् । यदि तच्छ्रद्धेयत्वेऽप्याग्रहस्तदा-- ``विना विप्रेण कर्तव्यं श्राद्धं कुशचटेन वै । आत्मानं वापि भुञ्जीत न विप्रं वेदवर्जितम् ॥'' इत्यादिवाक्यस्य, यथा श्राद्धे वेदविद्विप्रनिमन्त्रणावश्यकत्व एव तात्पर्यम्; न तु कुशचटेनात्मना वा कुर्यादित्यत्र; तथा यतिधर्मप्रबोधवाक्यस्यापि गृहिणो ब्रह्मविद्यागुरुत्वे न तात्पर्यम् । परं तु ब्रह्मविद्याग्रहणावश्यकत्वप्रदर्शने तात्पर्यमित्यङ्गीकृत्य तच्छ्रद्धेयत्वमुपपादनीयम् । क्षत्रियकर्तृकब्राह्मणकर्मक- वैश्वानरविद्याध्यापनबोधिकायाः क्षत्रियस्य तद्विद्यामात्राध्यापकत्वपरतया ब्रह्मविद्यादौर्लभ्यपरतया युगान्तपरतया वा नेतुं शक्यायाः, छान्दोग्य- श्रुतेर्बलात्, वर्णविनिमयेनेव आश्रमविनिमयेनापि गुरुत्वसम्भावनाधीना गृहिणोऽपि ब्रह्मविद्यागुरुत्वप्रत्याशा, मनुष्यत्वमात्रसाम्यादतिदीनस्य महासाम्राज्यप्रत्याशातुल्यतां कथं न प्राप्नुयात् । किञ्च, मुण्डकोपनिष- च्छिष्यगुरुलक्षणप्रदर्शनपूर्वकं श्रीमच्छुद्धाद्वैतत्रह्मबिद्याधिगमप्रकारप्रदर्शनार्थं प्रवृत्ता । तस्याम् ``परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्'' इति, ``तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्'' इति, ``येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्'' इति च श्रूयमाणत्वात् । अतोऽनधिगतार्थबोधकत्वरूपप्राबल्यवत्पूर्वोक्त- श्रुत्यनुसारणैब केवलविद्याबोधकच्छान्दोग्यादिश्रुतयो नेयाः । इत्थं च गौतमस्मृतिसूतसंहितादिवचनानां पूर्वोक्तश्रुत्यनुसारेण नेयत्वं कैमुतिकन्यायसिद्धम् ॥ यत्तु, हीनवर्णस्यापि ब्रह्मविद्यागुरुत्वप्रत्यायनेच्छया शुकोपाख्यानोदाहरणम्, तदुपहासास्पदमेव । तत्र पितृसकाशाच्छ्रुतोपनिषत्कस्यैव शुकस्य पित्रनुज्ञातस्य संवादार्थं जनकसमीपगमनस्य प्रतिपादितत्वात् । न च प्राचीनशालसत्ययज्ञादीनां विद्याप्रदः केकयराजः संन्यास्येवेति वाच्यम् । ``मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम् । बाहुजातोरुजातानां नैव धर्मो हि विद्यते ॥'' इति क्षत्रियस्य संन्यासनिषेधात् । यदि च क्षत्रियस्यापि संन्यासित्वबोधिका काचिच्छ्रुतिः स्मृतिर्वोपलभ्येत, तदा सिद्धं नः समीहितम् । यतो न वयं क्षत्रियत्वादिकमुद्देश्यतावच्छेदकीकृत्य ब्रह्मविद्यागुरुत्वाभावं साधयामः, किं तु संन्यासित्वापरनामब्रह्मनिष्ठत्वाभावमुद्देश्यतावच्छेदकीकृत्य । यदि केकयराजः संन्यासी स्यात्तदा किं नश्छिन्नम् । वर्णविनिमयस्तु नास्माकमेव दोषः ॥ किञ्च, सूतसंहितायां हीनवर्णस्य उत्तमवर्णगुरुत्वकथनप्रकरणे ``गुरुत्वं केचिदिच्छन्ति स्वोत्तमं प्रति केशव'' इत्यत्र श्रूयमाणं केचित्पदं दीनवर्णस्य उत्तमवर्णगुरुत्वविषये सूतसंहिताया न मुख्यं तात्पर्यमिति द्योतयति ॥ यदि कश्चिद्ब्रूयात्-- हीनवर्णस्य उत्तमवर्णगुरुत्वाभावेऽपि हीनाश्रमिणोऽपि विद्योत्कर्षबलेन उत्तमाश्रमिगुरुत्वप्रतिपादकसूतसहितावचनबलात् , हीनाश्रमिणः उत्तमाश्रमिगुरुत्वं निष्प्रत्यूहमेवेति; स चेत्थं प्रष्टव्यः- किं त्वदभिमतः हीनाश्रमिणः उत्तमाश्रमिगुरुत्वप्रयोजकीभूतविद्योत्कर्षः, मुण्डकोपनिषद्विवरणे श्रीमद्भगवत्पादव्याख्यातब्रह्मनिष्ठत्वापरनामा, आहोस्विद्वाग्वैखर्यादिरूपः? हीनाश्रमिणः पूर्वोक्ताद्यविद्योत्कर्षाङ्गीकारे हीनाश्रमिणो हीनाश्रमित्वमेव गगनकुसुमायितं भवेत् । द्वितीयस्य तूत्कर्षस्य व्रह्मविद्यागुरुत्वाप्रयोजकत्वम् - वाग्वैखरी शब्दसरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ॥ अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञात्तत्त्वमात्मनः ॥ इत्यादि वदद्भिः श्रीमद्भगवत्पादैरेव प्रकटीकृतमिति हीनाश्रमिणः उत्तमाश्रमिगुरुत्वसिद्धौ, वत्स तव का वा प्रत्याशेति ॥ इदं त्ववधेयम्-- इतराश्रमिणां मोचकब्रह्मविद्यायामधिकार एव नास्ति । ``त्रयः पुण्या लोकभाजः, एकोऽमृतत्वभाक्, ब्रह्मसंस्थोऽमृतत्वमेति'' इति श्रुतेः । ``त्यक्ताशेषक्रियस्यैव संसारं प्रजिहासतः । जिज्ञासोरेव चैकात्म्यं त्रय्यन्तेष्वधिकारिता ॥'' इति वार्तिकाच्च । परं तु, स्वस्वकर्माविरोधेन कृतः केवलब्रह्मविद्याभ्यासस्तेषां पापक्षयाय भवतीति । ``स्वयं तरितुमक्षमः किमपरानसौ तारयेत्'' इति न्यायेन इतराश्रमिणां ब्रह्मविद्यागुरुत्वं शशविषाणतुल्यम् । एतद्विस्तरस्तु श्रीमद्भगवत्पादविरचितैतरेयोपनिषद्विवरणादिभागे विद्वद्भिरनुसन्धेयः; तस्माद्रह्मनिष्ठस्यैव ब्रह्मविद्यागुरुत्वमिति सिद्धम् । एवं च सति केषाञ्चित् गृहिणोऽपि ब्रह्मविद्यागुरुत्वस्य शास्त्रीयात्मभ्रममूलको वैश्वानरविद्यादृष्टविनिमयसाम्यमात्रेण संन्यासिनिरूपितगुरुत्वभ्रमः, तदधीनो यो ग्रहिकर्मकसंन्यासिकर्तृकवन्दनस्य शास्त्रीयत्वादिविचारः, स कथं जन्मवन्ध्यायाः प्रपौत्रपोषणविचारसदृशतां न व्रजतीति सुधियो विदाङ्कुर्वन्त्वित्यलमप्रस्तुतचिन्तया । अतो विविदिषुः परमहंसो मैत्र्यादि- गुणगणमण्डितं ब्रह्मनिष्ठं गुरुमासाद्य तन्निकटे कृतश्रवणमननः पश्चात्तद्दत्तयुक्त्या चिरकृतनिदिध्यासनः ततः सञ्जातब्रह्मसाक्षात्कारः सुखं विहरेदिति सर्वमवदातम् ॥ मन्मानसगतिचतुरः चिदचित्क्षीराम्बुभेदकृतिदक्षः । नरसिंहनामलसितः कृत्या प्रीतिं प्रयातु परहंसः ॥ २॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह भारतीस्वामिभिः विरचिता श्रीशुद्धाद्वैतब्रह्मविद्याधिगमप्रकारमीमांसा सम्पूर्णा ।