अक्षर आकार:

श्रमदानम्

Shramadanam

श्रमदानम्

(गीतिका) (भुजङ्गप्रयात वत्तम्) श्रमं सौख्यमूलं श्रमं शान्तिमूलं श्रमो दैन्यहर्ता श्रमो व्याधि हन्ता । श्रमं साधनं भुक्ति-मुक्तेरजस्रं श्रमो मानवानां चरित्रं पवित्रम् ॥ श्रमो राजते यत्र ज्योतिः स्वरूपं, श्रमो भासते यत्र वह्नि-प्रकाशः । श्रमो द्योतते यत्र भानुः प्रतापो न तत्रास्ति देन्यं न वा रोग-शोकः ॥ सुधादीधितिः प्राणिनां ताप हर्ता खरांशु-प्रभश्चित्त-चैतन्य-दाता । कुबेर श्रियं, शक्ररूपश्च शक्तेः श्रमः सर्वन्दुःखाऽऽधि-नाशैक-हेतुः ॥ श्रमस्यैव दानेन नित्यं विकासो विलासं प्रहासं सुवासं प्रकाशम् । विनोबो-पदिष्टं श्रियो मूलमैतत् स्वदेशोन्नतेर्मूलमेतत् प्रकृष्टम् ॥ श्रमस्यैव दानेन कूपा सरण्यः शुभा ग्राममार्गाः घनाः वाटिकाश्च । प्रकाश-प्रबन्धः, पुरे स्वच्छता सा वनालि प्रणालि शिवा सेचनार्था ॥ श्रमस्यैव दानेन स्वार्थाऽवरोधः परार्थार्पणं त्याग-भावोदयश्च । सहास्तित्व-भावाभिवृद्धिः प्रमोदः क्रियाशीलकत्वं जनाऽऽल्हादकत्वम् ॥ श्रमस्यैव दानेन ग्रामोन्नतिः स्यात् पुराणां विकासो नराणां प्रहासः । वनानां विवृद्धिः, जलानां सुयोगः सदैवाऽऽर्थिकी उन्नतिर्वृद्धिरिष्टा ॥ श्रमस्यैव दानं शुभं सौख्य-मार्गः सदा भ्रातृ-भावोदयस्यास्ति मूलम् । शुभा विश्व-बन्धुत्व-भावाभिवृद्धिः सदैवोन्नतिर्मानसी दैहिकी च ॥ पुरेयं सहास्तित्व-भावाऽभिसक्तिः सदा संस्थिता भारते बद्धमूला । श्रमो वा धनं वा निजं देहमेव स्वभूतिः परार्थोपयोगाय दत्ता ॥ यदीष्टा हृदा भारतस्याऽभिवृद्धिः विकासः प्रसादोऽथवा सौख्य-सिद्धिः । श्रमस्यैव दानेन साध्यं समस्तं श्रमो मूलमन्त्रं सुखस्योन्नतेश्च ॥