अक्षर आकार:

श्लोक संग्रह १

common shlokas used for recitationset 1

श्लोक संग्रह १

ॐ वक्रतुंड महाकाय कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ या कुन्देन्दु तुषार् हार धवला या शुभ्रवस्त्रावृता । या वीणावरदंड मंडितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशंकरप्रभ्रुतिभिर्देवै सदा वंदिता । सा मां पातु सरस्वती भगवती निःशेष जाड्या पहा ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात्परब्रह्म तस्मै श्री गुरवेनमः ॥ कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती । करमूले तु गोविन्दः प्रभाते करदर्शनं ॥ समुद्रवसने देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ शांताकारं भुजगशयनं पद्मनाभं सुरेशं । विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गं । लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यं । वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित्दुःखभाग्भवेत् ॥ या देवी सर्वभूतेषु मातृरुपेण संस्थितः । या देवी सर्वभूतेषु शक्तिरुपेण संस्थितः । या देवी सर्वभूतेषु शान्तिरुपेण संस्थितः । नमस्तस्यैः नमस्तस्यैः नमस्तस्यैः नमो नमः ॥ ॐ णमो अरिहंताणं ॐ णमो सिद्धाणं ॐ णमो आयरियाणं ॐ णमो उवज्झायाणं ॐ णमो लोए सव्वसाहुणं एसो पंच णमोकारो सव्व पावपणासणो मंगलाणं च सव्वेसिम् पढमं हवई मंगलं सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ॥ वसुदेव सुतं देवं कंस चाणूरमर्दनं । देवकी परमानंदं कृष्णं वंदे जगद्गुरुं ॥ ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ राम रामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ शुभं करोति कल्याणं आरोग्यं धनसम्पदा । शत्रुबुध्दिविनाशाय दीपज्योति नमोऽस्तुते ॥ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भिः मा ते सङ्गोस्त्व कर्मणि ॥ करचरण कृतं वाक्कायजं कर्मजं वा । श्रवणनयनजं वा मानसं वापराधं । विहितमविहितं वा सर्वमेतत्क्षमस्व । जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ ॐ सह नाववतु । सह नौभुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देवदेव ॥ ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय ॥ ॐ शांतिः शांतिः शांतिः ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शांतिः शांतिः शांतिः ॥