अक्षर आकार:

शूरा वयम्

Shura Vayam

शूरा वयम्

शूरा वयं धीरा वयं वीरा वयं सुतरां गुणशालिनो बलशालिनो जयगामिनो नितराम् ॥ दृढमानसा गतलालसाः प्रियसाहसाः सततं जनसेवका अतिभावुकाः शुभचिन्तका नियतम् ॥ धनकामना सुखवासना न च वञ्चना हृदये ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये ॥ गतभीतयो धृतनीतयो दृढशक्तयो निखिलाः यामो वयं समराङ्गणं विजयार्थिनो बालाः ॥ जगदीश हे परमेश हे सकलेश हे भगवन् जयमङ्गलं परमोज्ज्वलं नो देहि परमात्मन् ॥