अक्षर आकार:

सत्याग्रहः

Satyagraha

सत्याग्रहः

(गीतिका) (मात्रासमक जाति) सत्याग्रहं इति शस्त्रमुदारं दीन-हीन-भय-दारकमस्त्रम् । देश-शत्रु सम्मर्दन-युक्तिः आङ्ग्ल-राज्य-संहारक-शक्तिः ॥ सत्या०॥ सत्य-निष्ठता, सत्य-श्रेष्ठता, सत्य-प्रेष्ठता, सत्या वाणी । सत्य-कर्मता, सत्य धर्मता सत्याग्रहं इति सत्य-चित्तता ॥ सत्या०॥ सत्याग्रह इति 'सत्यं' ज्योतिः, 'शिवं'-मिति लोक-क्षेम-सम्पुष्टिः । 'सुन्दरं'-मिति जन-मानस-तुष्टिः 'सत्यं शिवं सुन्दरं' सिद्धिः ॥ सत्या०॥ आत्मशक्ति-सम्पोषण-मन्त्रं ग्लानि-दोष-संशोषण-यन्त्रम् । शोक-शोष-परिशोषण-तन्त्रं पराधीनता पाश-लवित्रम् ॥ सत्या०॥ सत्याग्रहं इति परमा शक्तिः शौर्य-धर्य-गुण-भक्त्यनुरक्तिः । पराधीनता-पाप निवृत्तिः स्वातन्त्र्यामृत-पान-प्रवृत्तिः ॥ सत्या०॥ सत्याग्रहं इति परमा बुद्धिः गुण-गण-वृद्धिर्मानस-शुद्धिः । परद्रोहाद् विरतिर्गुण-रागः सत्य-रक्षणे जीवन-त्यागः ॥ सत्या०॥ सत्याग्रहं इति पावन-शस्त्रं अरि-दल-दलन-सुदर्शन-चक्रम् । जीवन-ज्योति, शुचिता-तन्त्रं देश-समृद्धि शान्ति-सुख-मन्त्रम् ॥ सत्या०॥ सत्याग्रहं इति वीर-विभूतिः, धीर-शूर-जन-रक्षक हेतिः । त्याग-तपोबल-गौरव-भूतिः मानसशक्ति-मान-धन-सूतिः ॥ सत्या०॥ सत्याग्रहं इति शक्ति-सङ्ग्रहः रोष-दोष मद-मोह-निग्रहः । भारतभूमि-पाश-भय-नाशं स्वातन्त्र्यामृत-विरचित-हासम् ॥ सत्या०॥ सत्ये सुखदं सदा आग्रहः गान्धि-वर्णितो दैन्य निग्रहः । भारत-शक्तिः, भारत-शस्त्रः, शत्रु-सैन्य-दल-नाशकमस्त्रम् ॥ सत्या०॥