अक्षर आकार:

सर्वेषां नो जननी

Sarvesham No Janani

सर्वेषां नो जननी

सर्वेषां नो जननी भारतधरणी कल्पलतेयं जननी-वत्सल-तनय-गणैस्तत् सम्यक् शर्म विधेयम् ॥ ध्रु॥ हिमगिरि-सीमन्तित-मस्तकमिदं अम्बुधि-परिगत-पार्श्वं अस्मज्जन्मदमन्नदमनिशं श्रौतपुरातनमार्षम् ॥ १॥ विजनितहर्षं भारतवर्षं विश्वोत्कर्षनिदानं भारतशर्मणि कृतमस्माभिः नवमिदमैक्यविधानम् ॥ २॥ भारतहितसम्पादनमेव हि कार्यं त्विष्टविपाकं भारतवर्जं न किमपि कार्यं निश्चितमित्यस्माकम् ॥ ३॥ भारतमेका गतिरस्माकं नापरास्ति भुवि नाम । सर्वादौ हृदयेन च मनसा भारतमेव नमाम ॥ ४॥ - राधानाथराय