अक्षर आकार:

सरस्वतीपादपद्मसेवा

Sarasvatipadapadmaseva

सरस्वतीपादपद्मसेवा

सरस्वतीपादपद्मसेवा यदीयमास्ते परं हि लक्ष्यम् । बधाग्रगाणामतिन्द्रितानां मदीयकविते कुरुष्व गानम् ॥ १॥ सुखं धनं स्नेहबन्धनानि स्वदेशसौख्याय ये त्यजन्ति । हुतात्मनां नित्यमेव तेषां मदीयकविते! कुरुष्व गानम् ॥ २॥ परोपकारव्रतं पवित्रं सदैव ये पालयन्ति हृष्टाः सुपूजितानां नृणां हि तेषां मदीयकविते! कुरुष्व गानम् ॥ ३॥ रिपोः करान्मोचयाम्बभूवुः स्वमातरं भारतावनिं ये । विशिष्य तेषां नृणां समेषां मदीयकविते! कुरुष्व गानम् ॥ ४॥ मनुष्यतां रक्षितुं स्वयत्नै- रनुक्षणं शोधतत्पराणाम् । प्रबुधवैज्ञानिकव्रजानां मदीयकविते! कुरुष्व गानम् ॥ ५॥ - डाॅ रमाकान्त शुक्ल