अक्षर आकार:

संस्कृतगङ्गाधारा

Sanskrita Gangadhara

संस्कृतगङ्गाधारा

भावविशुद्धा, सरलासिद्धा, संस्कृतगङ्गा धारा । पतितपावनी, मुनिमनमोहनी, सकलविश्वश‍ृङ्गारा ॥ संस्कृतगङ्गा धारा ॥ १॥ श्रुतिमणियुक्ता, पुराणचित्ता, शास्त्रशोभिता, विद्यावित्ता । यंत्रज्ञाना, शुचिविज्ञाना, तन्त्रमन्त्र ह्यवतारा ॥ संस्कृतगङ्गा धारा ॥ २॥ कविकुलवन्द्या, काव्यसमृद्धा, अतिरमणीया, मधुरा हृद्या । भासविलासिनि, कविजनहासिनि, सकलभ्रमपरिहारा ॥ संस्कृतगङ्गा धारा ॥ ३॥ माघव्यासः, कालीदासः, हर्षभारवी, कविवरभासः । संस्कृतसिन्धौ, वितरणशीलाः पदरचना व्यापारा ॥ संस्कृतभाषा धारा ॥ ४॥ -- कवि समर्थ श्री ॥ इति ॥