अक्षर आकार:

संस्कृताष्टकम्

Praise of Sanskrit Language

संस्कृताष्टकम्

अग्रतः संस्कृतं मेऽस्तु पृष्ठतो मेऽस्तु संस्कृतम् । संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥ १॥ संस्कृतं देवभाषाऽस्ति वेदभाषाऽस्ति संस्कृतम् । प्राचीन-ज्ञान-भाषा च संस्कृतं भद्रमण्डनम् ॥ २॥ वेदान्तानां पुराणानां शास्त्राणां च तथैव च । मंत्राणां तंत्रसूत्राणाम् आद्यभाषाऽस्ति संस्कृतम् ॥ ३॥ रामायणं महाकाव्यं महाभारतमेव च । उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥ ४॥ भासस्य कालिदासस्य भवभूतेश्च विश्रुता । बाण-शूद्रक-हर्षाणाम् काव्यभाषाऽस्ति संस्कृतम् ॥ ५॥ प्राणभूतं च यत्तत्त्वं सारभूतं तथैव च । संस्कृतौ भारतस्याऽस्य तन्मे यच्छतु संस्कृतम् ॥ ६॥ यत्र रामकथागानम् तत्राऽस्ते हनुमान् यथा । संस्कृताध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥ ७॥ श‍ृणुमः संस्कृतं नित्यं वदामः संस्कृतं तथा । स्मरामः संस्कृतं नित्यं पठामः संस्कृतं तथा ॥ ८॥
रचनाकारः वसन्तः शंकरसुतः नानिवडेकरः । Mr. V. S. Nanivadekar 1/18 Goregaonkar Chawl, Near Central Cinema, Girgaon, Mumbai 400004 India