अक्षर आकार:

सन्ध्यास्तोत्रम्

Sandhya Stotram

सन्ध्यास्तोत्रम्

ॐ अहो देवि महादेवि सन्ध्ये विद्ये सरस्वति । अजरे अमरे चैव ब्रह्मयोने नमोऽस्तुते ॥ सन्ध्ये देवि नमोऽस्तुते ॥ देवि त्वं प्राकृतचित्तं पापाक्रान्तमभून्मम । तन्निःसारय चित्तान्मे पापं हुं फट् नमोऽस्तुते ॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा । अमोघा विद्युता चेति मध्ये श्रीः सर्वतोमुखी ॥ नमस्ते देवदेवेशि सर्वतृप्तिकरे परे । अमृतानन्दमयि सन्ध्ये देवि तस्यैः नमो नमः ॥ सन्ध्ये देवि नमोऽस्तुते ॥ गुह्यातिगुह्यं भोक्त्रि त्वं सन्ध्ये सरस्वति मुदे । अजरे अमरे मातः त्राहि मां भवसागरात् ॥ अपराध सहस्राणि त्वसत्कर्मशतानि च । मत्तो जातानि सन्ध्ये त्वं क्षमस्व परमेश्वरि ॥ सन्ध्यादात्री च भोक्त्री च देवी सर्वमिदं जगत् । सरस्वती प्रकृतिधात्री सन्ध्ये देवि नमोऽस्तुते ॥ आत्मारूप ज्ञातुं प्राप्तुं ज्ञानं निष्कल्मिषं ऋतम् । सन्ध्यास्तोत्रं पठेन्नित्यं सर्वकामार्थ सिद्धये ॥ सन्ध्ये देवि नमोऽस्तुते ॥ http://www.youtube.com/watch?v=d18FQm-GqT8 Stotra sung by Sadhana Saragam