अक्षर आकार:

समर्पये जीवनम्

Samarpaye Jivanam

समर्पये जीवनम्

समर्पये जीवनं सर्वथा कायं वाचं धनम् । मातृभूमये पुण्यभूमये समर्पये जीवनम् ॥ जननि लालितं त्वया पालितं कौमारं कोमलं तव सेवार्थम् । गुणार्जनेऽहं समर्पये विमलम् ॥ त्वया पोषितं गुणगणसुभगं प्रफुल्लमिव कमलं, तव पूजार्थम् । समर्पयेऽहं स्वयौवनं प्रबलम् ॥ नियतकर्मणा नीतिपथेन हि धनमिह यदुपार्जितम् । गृहजनपोषणशेषं शेषं जननि तदपि तेऽर्पितम् ॥ - डाॅ श्री. भा. वर्णेकरः