अक्षर आकार:

स जयति जगति

Sa Jayati Jagati

स जयति जगति

स जयति जगति सनातनधर्मः सत्यमिदं सत्यम् ॥ उपदेशः खलु यस्य मनोज्ञः नित्यनवीनोऽयम् ॥ सत्यमिदं सत्यम् ॥ निर्मलभक्त्या कर्मविशुद्धं कुरुताविरतं फलमविचिन्त्य । अयमिह धर्मः रक्षत धर्मं रक्षति धर्मो हि ॥ १॥ अर्चत विष्णुं शङ्करमथवा जिनमाचार्यं बुद्धमथान्यम् । एको देवो नाम विभिन्नं नास्ति विवादोऽत्र ॥ २॥ अयमिह स्पृश्यः अयमस्पृश्यः उच्चो ह्येकः नीचोऽप्यपरः । एवंरूपः भिन्नो भावः कल्पित एवायम् ॥ ३॥ भूतलमेकं यत्र निवासः कुलमप्येकं मनुकुलजानाम् । तस्मात्सर्वे भ्रातर यूयं मा विस्मरतेदम् ॥ ४॥ जातिरभिन्ना नीतिरभिन्ना लक्ष्यमभिन्नं कार्यमभिन्नम् । तस्मात्सर्वे सङ्गच्छध्वं सङ्घे शक्तिरिह ॥ ५॥ द्वेषं त्यक्त्वा भेदं हित्वा लक्ष्यं सततं चेतसि कृत्वा । क्रियते कार्यं यदि युष्माभिः भविता सिद्धिरिह ॥ ६॥ धैर्ये रक्तिः कर्मणि सक्तिः दैवे भक्तिः पापविरक्तिः । सर्वेषामपि भवभयतरणे एषा युक्तिरिह ॥ ७॥ मनसा सततं ध्यायत भद्रं वचसा सततं निगदत भद्रम् । कृत्या सततं कुरुत च भद्रं भवति हि वो भद्रं ॥ ८॥ - मञ्जुनाथशर्मा