अक्षर आकार:

सैन्य गीतम्

Sainya Gitam

सैन्य गीतम्

(लय-कदम कदम बढाये जा॥॥) सादरं समीयताम्, वन्दना विधीयताम्, श्रद्धया स्वमातृभू - समर्चना विधीयताम्, ॥ १ आपदा भवन्तु वा, विद्युतो लन्तु वा, आयुधानि भूरिशोऽपि मस्तके पतन्तु वा, धीरता न हीयताम्, वीरता विधीयताम, निर्भयेन चेतसा पदं पुरो निधीयताम् ॥ सादरं०॥ २ प्राणदायिनी इयम्, त्राणदायिनी इयम्, शक्ति - मुक्ति - मुक्तिदा सुधाऽनपायिनी इयम्, एतदीय -- वन्दने, सेवनेऽ भिनन्दने, साभिमानमात्मनो जीवन प्रदीयताम् ॥ सादरं०॥ ३ - वासुदेव द्विवेदी शास्त्री