अक्षर आकार:

सद्दर्शनम्

Saddarshanam

सद्दर्शनम्

श्रीभगवद्रमणमहर्षि-विरचित-द्राविडग्रन्थस्य संस्कृतानुवादात्मकम् मङ्गलम् सत्प्रत्ययाः किं नु विहाय सन्तं हृद्येष चिन्तारहितो हृदाख्यः । कथं स्मरामस्तममेयमेकं तस्य स्मृतिस्तत्र दृढैव निष्ठा ॥ १ ॥ मृत्युञ्जयं मृत्युभियाश्रिताना- महंमतिर्मृत्युमुपैति पूर्वम् । अथ स्वभावादमृतेषु तेषु कथं पुनर्मृत्युधियोऽवकाशः ॥ २ ॥ ग्रन्थारम्भः सर्वैर्निदानं जगतोऽहमश्च वाच्यः प्रभुः कश्चिदपारशक्तिः । चित्रेऽत्र लोक्यं च विलोकिता च पटः प्रकाशोऽप्यभवत्स एकः ॥ ३॥ तत्त्वग्रन्थमाला आरभ्यते जीवजगत्परात्म- तत्त्वाभिधानेन मतं समस्तम् । इदं त्रयं यावदहंमति स्यात् सर्वोत्तमाऽहंमतिशून्यनिष्ठा ॥ ४॥ सत्यं मृषा वा चिदिदं जडं वा दुःखं सुखं वेति मुधा विवादः । अदृष्टलोका निरहंप्रतीति- र्निष्ठाऽविकल्पा परमाऽखिलेष्टा ॥ ५॥ सरूपबुद्धिर्जगतीश्वरे च सरूपधीरात्मनि यावदस्ति । अरूपकात्मा यदि कः प्रपश्येत् सा दृष्टिरेकाऽनवधिर्हि पूर्णा ॥ ६॥ यत्पञ्चकोशात्मकमस्ति देहं तदन्तरा किं भुवनं चकास्ति । देहं विना पञ्चविधं तदेतत् पश्यन्ति के वा भुवनं भणन्तु ॥ ७॥ शब्दादिरूपं भुवनं समस्तं शब्दादिसत्तेन्द्रियवृत्तिभास्या । सत्तेन्द्रियाणां मनसो वशे स्यात् मनोमयं तद्भुवनं वदामः ॥ ८॥ धिया सहोदेति धियास्तमेति लोकस्ततो धीप्रविभास्य एषः । धीलोकजन्मक्षयधाम पूर्णं सद्वस्तु जन्मक्षयशून्यमेकम् ॥ ९॥ भवन्तु सद्दर्शनसाधनानि परस्य नामाकृतिभिः सपर्या । सद्वस्तुनि प्राप्तदात्मभावा निष्ठैव सद्दर्शनमित्यवेहि ॥ १०॥ द्वन्द्वानि सर्वाण्यखिलास्त्रिपुट्यः किञ्चित्समाश्रित्य विभान्ति वस्तु । तन्मार्गणे स्याद्गलितं समस्तं न पश्यतां सच्चलनं कदापि ॥ ११॥ विद्या कथं भाति न चेदविद्या विद्यां विना किं प्रविभात्यविद्या । द्वयं च कस्येति विचार्य मूल- स्वरूपनिष्ठा परमार्थविद्या ॥ १२॥ बोद्धारमात्मानमजानतो यो बोधः स किं स्यात्परमार्थबोधः । बोधस्य बोध्यस्य च संश्रयं स्वं विजानतस्तद्द्वितयं विनश्येत् ॥ १३॥ निद्रा न विद्या ग्रहणं न विद्या गृह्णाति किञ्चिन्न यथार्थबोधे । निद्रापदार्थग्रहणेतरा स्यात् चिदेव विद्या विलसन्त्यशून्या ॥ १४॥ सत्यश्चिदात्मा विविधाकृतिश्चित् सिध्येत्पृथक्सत्यचितो न भिन्ना । भूषाविकाराः किमु सन्ति सत्यं विना सुवर्णं पृथगत्र लोके ॥ १५॥ तद्युष्मदोरस्मदि सम्प्रतिष्ठा तस्मिन् विनष्टेऽस्मदि मूलबोधात् । तद्युष्मदस्मन्मतिवर्जितैका स्थितिर्ज्वलन्ती सहजात्मनः स्यात् ॥ १६॥ भूतं भविष्यच्च भवत्स्वकाले तद्वर्तमानस्य विहाय तत्त्वम् । हास्या न किं स्याद्गतभाविचर्चा विनैकसङ्ख्यां गणनेव लोके ॥ १७॥ क्व भाति दिक्कालकथा विनाऽस्मान् दिक्काललीलेह वपुर्वयं चेत् । न क्वापि भामो न कदापि भामो वयं तु सर्वत्र सदा च भामः ॥ १८॥ देहात्मभावे ज्ञजडौ समाना- वेकस्य देहे हृदि दीप्त आत्मा । आक्रम्य देहं च जगच्च पूर्णः परस्य मेयं तनुमात्रमात्मा ॥ १९॥ अज्ञस्य विज्ञस्य च विश्वमस्ति पूर्वस्य दृश्यं जगदेव सत्यम् । परस्य दृश्याश्रयभूतमेकं सत्यं प्रपूर्णं प्रविभात्यरूपम् ॥ २०॥ विधेः प्रयत्नस्य च कोऽपि वाद- स्तयोर्द्वयोर्मूलमजानतां स्यात् । विधेः प्रयत्नस्य च मूलवस्तु सञ्जानतां नैव विधिर्न यत्नः ॥ २१॥ यदीशितुर्वीक्षणमीक्षितार- मवीक्ष्य तन्मानसिकेक्षणं स्यात् । न द्रष्टुरन्यः परमो हि तस्य वीक्षा स्वमूले प्रविलीय निष्ठा ॥ २२॥ आत्मानमीक्षेत परं प्रपश्ये- दित्यागमोक्तेः सुलभो न भावः । नात्मैव दृश्यो यदि का कथेशे स्वयं तदन्नीभवनं तदीक्षा ॥ २३॥ धिये प्रकाशं परमो वितीर्य स्वयं धियोऽन्तः प्रविभाति गुप्तः । धियं परावर्त्य धियोन्तरेऽत्र संयोजनान्नेश्वरदृष्टिरन्या ॥ २४॥ न वक्ति देहोऽहमिति प्रसुप्तौ न कोऽपि नाभूवमिति प्रवक्ति । यत्रोदिते सर्वमुदेति तस्य धियाऽहमः शोधय जन्मदेशम् ॥ २५॥ देहो न जानाति सतो न जन्म देहप्रमाणोऽन्य उदेति मध्ये । अहङ्कृतिग्रन्थिविबन्धसूक्ष्म- शरीरचेतोभवजीवनामा ॥ २६॥ रूपोद्भवो रूपततिप्रतिष्ठो रूपाशनो धूतगृहीतरूपः । स्वयं विरूपः स्वविचारकाले धावत्यहङ्कारपिशाच एषः ॥ २७॥ भावेऽहमः सर्वमिदं विभाति लयेऽहमो नैव विभाति किञ्चित्। तस्मादहंरूपमिदं समस्तं तन्मार्गणं सर्वजयाय मार्गः ॥ २८॥ सत्या स्थितिर्नाहमुदेति यत्र तच्चोदयस्थानगवेषणेन । विना न नश्येद्यदि तन्न नश्येत् स्वात्मैक्यरूपा कथमस्तु निष्ठा ॥ २९॥ कूपे यथा गाढजले तथान्त- र्निमज्ज्य बुद्ध्या शितया नितान्तम् । प्राणं च वाचं च नियम्य चिन्वन् विन्देन्निजाहङ्कृतिमूलरूपम् ॥ ३०॥ मौनेन मज्जन्मनसा स्वमूल- चर्चैव सत्यात्मविचारणं स्यात् । एषोऽहमेतन्न मम स्वरूप- मिति प्रमा सत्यविचारणाङ्गम् ॥ ३१॥ गवेषणात्प्राप्य हृदन्तरं तत् पतेदहन्ता परिभुग्नशीर्षा । अथाहमन्यत्स्फुरति प्रकृष्टं नाहङ्कृतिस्तत्परमेव पूर्णम् ॥ ३२॥ अहङ्कृतिं यो लसति ग्रसित्वा किं तस्य कार्यं परिशिष्टमस्ति । किञ्चिद्विजानाति स नात्मनोऽन्यत् तस्य स्थितिं भावयितुं क्षमः कः ॥ ३३॥ आह स्फुटं तत्त्वमसीति वेद- स्तथाप्यसम्प्राप्य परात्मनिष्ठाम् । भूयो विचारो मतिदुर्बलत्वं तत्सर्वदा स्वात्मतया हि भाति ॥ ३४॥ न वेद्म्यहं मामुत वेद्म्यहं मा- मिति प्रवादो मनुजस्य हास्यः । दृग्दृश्यभेदात् किमयं द्विधात्मा स्वात्मैकतायां हि धियां न भेदाः ॥ ३५॥ हृत्प्राप्य सद्धाम निजस्वरूपे स्वभावसिद्धेऽनुपलभ्य निष्ठाम् । मायाविलासः सदसत्सरूप- विरूपनानैकमुखप्रवादाः ॥ ३६॥ सिद्धस्य वित्तिः सत एव सिद्धिः स्वप्नोपमानाः खलु सिद्धयोऽन्याः । स्वप्नः प्रबुद्धस्य कथं नु सत्यः सति स्थितः किं पुनरेति मायाम् ॥ ३७॥ सोऽहंविचारो वपुरात्मभावे साहाय्यकारी परमार्गणस्य । स्वात्मैक्यसिद्धौ स पुनर्निरर्थो यथा नरत्वप्रमितिर्नरस्य ॥ ३८॥ द्वैतं विचारे परमार्थबोधे त्वद्वैतमित्येष न साधुवादः । गवेषणात्प्राग्दशमे विनष्टे पश्चाच्च लब्धे दशमत्वमेकम् ॥ ३९॥ करोमि कर्मेति नरो विजानन् बाध्यो भवेत्कर्मफलं च भोक्तुम् । विचारधूता हृदि कर्तृता चेत् कर्मत्रयं नश्यति सैव मुक्तिः ॥ ४०॥ बद्धत्वभावे सति मोक्षचिन्ता बन्धस्तु कस्येति विचारणेन । सिद्धे स्वयं स्वात्मनि नित्यमुक्ते क्व बन्धचिन्ता क्व च मोक्षचिन्ता ॥ ४१॥ रूपिण्यरूपिण्युभयात्मिका च मुक्तिस्त्रिरूपेति विदो वदन्ति । इदं त्रयं या विविनक्त्यहन्धी- स्तस्याः प्रणाशः परमार्थमुक्तिः ॥ ४२ ॥ सद्दर्शनं द्राविडवाङ्निबद्धं महर्षिणा श्रीरमणेन शुद्धम् । प्रबन्धमुत्कृष्टममर्त्यवाण्या- मनूद्य वासिष्ठमुनिर्व्यतानीत् ॥ ४३ ॥ सत्तत्त्वसारं सरलं दधाना मुमुक्षुलोकाय मुदं ददाना । अमानुषश्रीरमणीयवाणी- मयूखभित्तिर्मुनिवाग् विभाति ॥ ४४॥ ॥ सद्दर्शनं समाप्तम्॥