अक्षर आकार:

सदा स्मरामि माधवम्

Sada Smarami Madhavam

सदा स्मरामि माधवम्

सुदर्शनं सदाशिवं सदा स्मरामि माधवं शुभङ्करं प्रियं वदं सदा स्मरामि माधवम् ॥ ध्रु॥ अखण्डराष्ट्रनायकं समत्वगीतगायकम् । सुसङ्घमन्त्रदायकं सदा स्मरामि माधवम् ॥ १॥ तपोधनं कृपाघनं आद्यशङ्करोपमम् । सुसिद्धयोगभास्वरं सदा स्मरामि माधवम् ॥ २॥ प्रकृष्टधैर्यधारकं विमुक्तहास्यसुन्दरम् । भयार्तदीनबान्धवं सदा स्मरामि माधवम् ॥ ३॥ विधेयध्येयतत्परं स्वराष्ट्रभक्तिसाधकम् । ''इदं न मे'' व्रतोज्वलं सदा स्मरामि माधवम् ॥ ४॥