अक्षर आकार:

सभापूजा

sabhApUjA

सभापूजा

ब्राह्मणेभ्यो महद्भ्यश्च वेदविद्भ्यो विशेषतः । पुराणशास्त्र विद्भ्यश्च सर्वेभ्यो वै नमोनमः ॥ १॥ पुत्रोत्सवे मौञ्जिबन्धे कन्यायाः प्रथमार्तवे । विवाहे यज्ञसमये बिन्नहं पञ्चसु स्मृतम् ॥ २॥ पूर्वं सभां नमस्कृत्य पश्चादासनपूर्वकम् । कृत्वोपचारं कालीनं सभां स्तोतुं समारभेत् ॥ ३॥ वराय वरवेषाय गुरूणां सुहृदामपि । उपचारस्तु कर्तव्यो मङ्गल्यो मङ्गलायनैः ॥ ४॥ अर्चयेदृत्विगाचार्यनृपविद्वत्सुहृद्वरान् । आगतान् स्वगृहं गेही यथा विभवमादरात् ॥ ५॥ गाम्भीर्यं जलधौ स्थिरत्वमचले तेजोधिकं भास्करे शौर्यं शान्तनवे नयस्सुरगुरौ त्यागस्तु सूर्यात्मजे । एकैको गुण एव तेषु निहितो युष्मासु सर्वेगुणाः तिष्ठन्त्येव धरामरान् हरिपरान् कस्स्तोतुमीशः क्षितौ ॥ ६॥ भवन्तस्सर्वज्ञाः सकलभुवने रूढयशसो वयं तावद्बालाः सरसवचने नैव निपुणाः । तथापीयं वाणी विशतु भवतां कर्णकुहरे किशोरस्यालापः खलु भवति पित्रोरतिमुदे ॥ ७॥ महत्या गदया युक्तां सत्यभामासमन्विताम् । सुदर्शनधरां वन्दे सभां विष्णोरिवाकृतिम् ॥ ८॥ विद्वन्नदीव्रातसहस्रपूर्णं तथा सहस्रप्रभुरत्नपूर्णम् । वेदान्तवाक्यार्थतरङ्गलोलं सभा समुद्रं प्रणमामि मूर्ध्ना ॥ ९॥ सभामण्डलमित्येके सभारत्नं तु केचन । सभासमुद्रमितरे सदसो लक्षणत्रयम् ॥ १०॥ आशीः पूर्वकमित्येके नमः पूर्वं तु केचन । भिन्नहं वेदपूर्वं स्यादिति सर्वैर्विनिश्चितम् ॥ ११॥ स्वस्तीति प्रतिभाषितो मुनिवरैः संस्तूयमानस्सुरैः पार्श्वे पद्मजपद्मनाभपुरुहूताद्यैर्जयेत्यर्चितः । अग्रे चाप्सरसां गणैरहरहर्नृत्यद्भिराल्हादितः सन्तुष्टो गिरिजाविवाहसमये स्यात्सम्पदेनो मृडः ॥ १२॥ सर्वाशा परिपूरणक्षमकरं सर्वोपकारोदयं सन्मार्गाभिरतं समस्ततमसः प्रध्वंसि सत्यास्पदम् । ब्रह्मावासमशेषवेदनिलयं विद्याधराराधितं प्रख्यातं भुवि भानवीयमिव वो वन्दे सभामण्डलम् ॥ १३॥ विदितचतुरभाषा भारती फालभूषा व्यपगतबहुदोषा चन्द्रिकोद्यन्मनीषा । हृदयतिमिरपूषा ज्ञानविद्याविशेषा मम भवतु सुतोषा भूसुराणां सभैषा ॥ १४॥ वेदपूर्वं तु , ओं नमः॒ सद॑से । नमः॒ सद॑स॒स्पत॑ये । नमः॒ सखी॑नां पुरो॒गाणां॒ चक्षु॑षे । नमो॑ दि॒वे । नमः॑ पृथि॒व्यै । सप्रथस॒भां मे॑ गोपाय । ये च॒ सभ्याः॑ सभा॒सदः॑ । तानिं॑द्रि॒याव॑तः कुरु । सर्व॒मायु॒रुपा॑सताम् ॥ १५॥ अहे॑बुध्निय॒ मन्त्रं॑ मे गोपाय । यमृष॑यस्त्र॒यी वि॒दा वि॒दुः । ऋचः॒ सामा॑नि॒ यजू॑ꣳषि । सा हि श्रीर॒मृता॑ स॒ताम् ॥ १६॥ अभ्युत्थानं चासनं स्वागतोक्तिः, पाद्यं चार्घ्यं मधुपर्काचमौ च । स्नानं वासो भूषणं गन्धमाल्ये धूपो दीपस्सोपहारः प्रणामः ॥ १७॥ अभ्युत्थानमथासिका वितरणं भूयो वचस्स्वागतम् । पाद्यं व्याजनमक्षतं क्रमवशादर्घ्यं निरर्घक्रियम् ॥ केचित्प्राहुरिमान् षडुत्तमतमानत्रोपचारान् परे । ब्रूयाद्वन्दनमेकमर्हणविधिं यन्मादृशा तत्क्षमम् ॥ १८॥ नास्ति सत्यात्परो धर्मस्सन्तुष्टिर्नात्मजात्परा । नान्नदानात्परं दानं वन्दनान्नोपचारकम् ॥ १९॥ सत्यादधिको धर्मो नास्ति । पुत्रोत्सवादपरः सन्तोषो नास्ति । अन्नदानादधिकदानं न विद्यते । वन्दनादधिक उपचारो नास्ति । तस्माद्वन्दनोपचारेणैव सर्वेप्युपचाराः कृतास्सन्त्विति मदीया विज्ञापना ॥ सर्वेभ्यो नमस्काराः ॥ ॥ इति सभा पूजा ॥ सङ्ग्राहकः विद्वान् परमेश्वर भट्टः पुट्टनमने