अक्षर आकार:

संस्कृतेन सम्भाषणं कुरु

Samskritena Sambhashanam Kuru

संस्कृतेन सम्भाषणं कुरु

संस्कृतेन सम्भाषणं कुरु, जीवनस्य परिवर्तनं कुरु यत्र यत्र गच्छसि पश्य तत्र संस्कृतं संस्कृतेः संरक्षणं कुरु ॥ १॥ जीवनस्य लक्ष्यमस्ति किम् ? जीवनस्य लक्ष्यमेव संस्कृतस्य वर्धनम् । स्फूर्तिरस्ति, तत्र प्रीतिरस्ति स्फूर्तिरस्ति, प्रीतिरस्ति संस्कृतस्य वर्धने जिजीविषाम संस्कृताय रक्षयाम संस्कृतिं समर्पयाम संस्कृताय जीवनम् ॥ २॥ जागृयाम वयं प्रेरयाम जागृयाम प्रेरयाम सर्वहिन्दुसोदरान् सम्पिबाम वयं पाययाम सम्पिबाम पाययाम संस्कृतामृतं सदा । देशहितचिन्तनं विना यस्य जीवनं व्यर्थमेव तस्य गर्ह्यजीवनम् ॥ ३॥ ऐक्यमस्तु अचलबुद्धिरस्तुव्व् ऐक्यमस्तु अचलतास्तु संस्कृताभिमानिनाम् । धीरतास्तु नैव भीतिरस्तु धीरतास्त्वभीतिरस्तु मास्तु उदासीनता मातृभूमिसेवनं दीनदलितरक्षणं संस्कृतप्रचार एव जीवनम् ॥ ४॥ - श्री वेङ्कटरमणमुच्चिन्नायः