अक्षर आकार:

संस्कृतेन पाठनम्

Samskritena Pathanam

संस्कृतेन पाठनम्

संस्कृतेन पाठनं संस्कृताय जीवनम् । संस्कृतेन पाठनं संस्कृताय अर्पणम् ॥ एकैकपदमपि निक्षिपाम तत्पथे प्रत्यूहकण्टकं उत्खनाम तत्पथे लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे ॥ चिन्तितं व्रतमिदं आचराम जीवने स्वीकृतं व्रतमिदं न त्यजाम जीवने परजनैरपि व्रतं कारयाम जीवने ॥ संस्कृतेन चिन्तनं मानसोल्लासनं संस्कृतेन लेखनं सर्वकार्यसाधनं संस्कृतेन भाषणं भरतवर्षभूषणम् ॥ - जि। महाबलेश्वरभट्टः