अक्षर आकार:

संस्कृतस्य सेवनं संस्कृताय जीवनम्

saMskRitasya sevanaM saMskRitAya jIvanam

संस्कृतस्य सेवनं संस्कृताय जीवनम्

संस्कृतस्य सेवनं, संस्कृताय जीवनम् लोकहितसमृद्धये भवतु तनुसमर्पणम् ॥ ध्रु॥ कार्यगौरवं स्मरन् विघ्नवारिधिं तरन् लक्ष्यसिद्धिमक्षिसात् करोमि सोद्यमः स्वयम् । यावदेति संस्कृतं, प्रतिजनं गृहं गृहं तावदविरता गतिस्तावदनुपदं पदम् ॥ १॥ कामये न सम्पदं भोगसाधनं सुखं किञ्चिदन्यदाद्रिये विना न संस्कृतोन्नतिम् । गौरवास्पदं पदं, नेतुमद्य संस्कृतं बद्धकटिरयं जनो निधाय जीवनं पणम् ॥ २॥ भाषिता च वागियं भाषिता भवेद् ध्रुवं भाष्यमाणतां समेत्य राजतां पुनश्चिरं भरतभूमिभूषणं सर्ववाग्विभूषणं संस्कृतिप्रवाहकं संस्कृतं विराजताम् ॥ ३॥ - जनार्दन हेगडे