अक्षर आकार:

संस्कृतस्य रक्षणाय

Samskritasya Rakshanaya

संस्कृतस्य रक्षणाय

संस्कृतस्य रक्षणाय बद्धपरिकरा वयम् । संस्कृतेः प्रवर्धनाय दृढनिधिर्भवेदिदम् ॥ संस्कृतस्य महिमवर्णनेन नास्ति साधितं सततसम्भाषणेन तस्य जीवनं स्थिरम् । जनमुखेन भाषितं ननु जगति जीवितं राजते चिरं समस्तराष्ट्रमान्यतास्पदम् ॥ संस्कृतस्य सेवनं मातृसेवासमं तेन सम्भाषणं वाङ्मातृपूजनम् । मातृभिः प्रवर्तनेन मातृभाषा परं सरलसम्भाषणेन लसति बालादृतम् ॥ राजपोषणात् पुरा नीतमिदं वैभवं लोकशक्तिकेन्द्रितं स्थास्यतीह केवलम् । शिक्षकास्तदर्थमेव त्यागशालिनः स्युः संस्कृतोज्जीवनाय प्राप्तजीवना ध्रुवम् ॥ - गु. गणपय्यहोळ्ळः